SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ***** k**** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १७१ * 'रस आस्वादने' अमृतरसवद्रसे आस्वादने उपमा यस्य तत् अमृतरसरसोपमं आसीत् । शेषं स्पष्टम् ।।३२०।। पारणकेषु किं किमभूदित्याह - * घुटुं च अहोदाणं दिव्वाणि य आहयाणि तूराणि । देवा य संनिवईया वसुहारा चेव वुट्ठा य ।।३२१।। आ. नि. * देवैराकाशस्थैर्युष्टं अहोदानमिति दिव्यानि च दुन्दुभ्यादीनि तूर्याणि देवैराहतानि देवाश्च सन्निपतितास्तत्रागताः । वसु-द्रव्यं तस्य धारा * सामायिक नियुक्तिः *जलधारेव वृष्टा पारणककारकगृहे ।।३२१।। आद्यजिनपारणकविशेषस्वरूपमाह - निर्गमद्वारे गयउर सिजंसिक्खुरसदाण वसुहार पीढ गुरुपूया । तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव ।।३२२।। * श्रीऋषभस्वामिअर्थः कथातो ज्ञेयः । सा चेयं - वक्तव्यता प्रथमभिक्षा। आकरः सर्ववस्तूनां देशोऽस्ति कुरुनामकः । समुद्र इव रत्नानां गुणानामिव सजनः ।।१।। गाथापुरं गजपुरं तत्र क्षरगजमदोर्मिभिः । तदैव नर्मदा जज्ञे नूनं या दृश्यतेऽधुना ।।२।। ३२१-३२२ तत्र बाहुबलेः पुत्रः सौम्यः सोमप्रभो नृपः । चित्रं पद्याहितानन्दः सूरस्तीव्रप्रतापवान् ।।३।। सोमप्रभः - चन्द्र इव प्रभा यस्य स, तत्पक्षे पद्म-कमलम् तस्मिन्नाहित आनन्दो येन स इति पद्माहितानन्दः । सोमप्रभनामनृपस्य पक्षे तु पद्मा-लक्ष्मीः तस्यामाहित आनन्दो येन स, * १७१ तथाऽपि चित्रं आश्चर्य सोमप्रभः सूर इव - आदित्य इव तीव्रप्रतापवानासीत् ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy