SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १६९ ***************** नागराट् धरणोऽभ्यागात्स्वामिनं नन्तुमन्यदा । नमिश्च विनमिश्चैव तदाग्रे पादयोः प्रभोः । । १ । । कायोत्सर्गस्थितस्यापि मौनमुद्रावलम्बिनः । दत्वाम्भश्छटकं कृत्वा पुष्पप्रकरमग्रतः ।।२।। तौ व्यजिज्ञपतामेवं देह्यंशं देव ! नावपि । तच्छ्रुत्वा धरणोऽवादीत् त्यक्तसङ्गोऽधुना प्रभुः ||३|| देयं न किञ्चिदस्याऽस्ति याचेतं भरतं ततः । ऊचतुस्तावहो भर्त्तुर्भरतः सूनुरोरसः ||४|| आवां पुनः सुतौ जिह्वयौ तदन्यं नाऽऽ श्रयावहे । दानं ददाने नायातौ भवन्तौ तर्हि किं प्रभौ ।।५।। तदा प्रयोजनेनाऽऽवामभूतां दूरतो गतौ । धरणः स्माह तुष्टोऽहं युवयोः स्वामिभक्तितः ।। ६ ।। सेवकोऽहं प्रभोरस्मि स्वामिसेवा च निःफ [ष्फ]ला । मा भूदिति पाठसिद्धा विद्या यच्छामि वामिमाः | ७ || अष्टाचत्वारिंशद्विद्यासहस्राणि तयोरदात् । महाविद्या इमास्तासु चतस्रोऽतिमहाबलाः ।।८।। आद्या गोर्यथ गान्धारी प्रज्ञप्ती रोहिणी तथा । तद्यात यूयं विद्यानां समृद्ध्या स्वजनं जनम् ।।९।। उपलोभ्य समानीय कृत्वा सर्वं नभश्चरम् । दक्षिणोत्तरयोः श्रेण्योर्वेताढ्यस्य महागिरेः ।। १० ।। पञ्चाशद्रथनूपुरचक्रवालादिका: पुरः । गगनवल्लभाद्यानां पुराणां षष्टिमन्यतः । । ११ ।। निवेश्य राज्यं कुरुतामित्यादिक्षदहीश्वरः । जिनानां जिनचैत्यानां तथा चरमवर्ष्मणाम् ।।१२।। प्रतिमाप्रतिपन्नानां सर्वेषां वाऽनगारिणाम् । पराभवं लङ्घनं च ये करिष्यन्ति खेचराः ।। १३ ।। ******* आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्तव्यता नमिविनमिराज्ययाञ्चाकथा । गाथा - ३१७ १६९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy