________________
आसंश्च पाणिघर्षिणः । भगवदुपदेशात्पाणिभ्यां घृष्ट्वाऽपनीतत्वच ओषधीर्भुक्तवन्तः । तथाप्यजीर्णत्वे तथैवोपदेशात्तीमिततन्दुलान्प्रवालपुटे भोक्तुं शीलं येषां ते तीमिततन्दुलप्रवालपुटभोजिनो जाताः । तत्राप्यजरणे तदुपदेशाद्धस्ततलपुटाहाराः- हस्ततलपुटे स्वेदयित्वा भुक्तवन्तः । तथा
आ. नि. सामायिक
निर्युक्तिः
भा. घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई । घंसणतिम्मणपवाले हत्थउडे कक्खसे य ।।९।।
निर्गमद्वारे
誰
घृष्ट्वा तीमनमात्रं च कृत्वा भोजिनो भोक्तारः | १ | घृष्ट्वा प्रवालपुटे, तीमनं कृत्वा भोजिनः |२| घृष्ट्वा प्रवालपुटे तीमित्वा हस्तपुटे * श्रीऋषभस्वामिकियत्कालं धृत्वा भोजिनः । ३ । घृष्ट्वा प्रवालपुटे तीमित्वा हस्तपुटे कियत्कालं धृत्वा कक्षास्वेदं च कृत्वा भोजिनः ॥४। राज्यद्वारम् इत्येककद्विकत्रिकचतुर्णां योगाः, अस्यां गाथायां दर्शिताः । अत्रान्तरे - * आहारविधिः । गाथा - २०६
भा. गाथा -
९-१०
१४४
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः *
१४४
भा. अगणिस्स य उट्ठाणं वणघंसा देद्रु भीय परिकहणं । पासेसुं परिच्छिंदह गिण्हह पागं तओ कुणह ।। १० ।। अग्नेरुत्थानं वनघर्षात् । तं च ज्वलन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहीतुं प्रवृत्ताः । दह्यमाना भीताः प्रभोः परिकथनं कृतवन्तः । प्रभुराह पार्श्वेषु परितः छिन्त तृणलतादीनि छेदयत येन सर्वतः सर्वं न ज्वलयति । अग्निं गृह्णीत, ततः पाकं कुरुत । अथ ते किं कुर्वन्तीत्याह -
१. दड्डुल
********