________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१३८
अथोचैर्मङ्गलाचारे दीयमानेऽङ्गनाजनैः । रभसोल्लसितैरङ्गेद्वैगुण्यमिव लम्भितैः ।।३५६।। मेरुं सरोहिणीज्योत्स्नोऽब्जवत्तत्राभितोऽनलम् । स्वाम्यभ्राम्यद्युतस्ताभ्यामामङ्गलचतुष्टयम् ।।३५७।। [युग्मम्] अथ श्यालकदेशीयः कश्चिन्मङ्गलवर्त्तने । स्वामिनं चरणाङ्गष्ठे नीचैर्भूयाऽभ्यधारयत् ।।३५८।। दीनस्य पादलग्नस्य दासस्येवास्य किञ्चन । दीयतामर्थिनो देव ! स्माहुरित्यनुगा: प्रभोः ।।३५९।। यथेच्छं भगवांस्तस्मै स्वर्णरत्नाद्यदात्तदा । महान्तो ाहिलग्नानां ददते यत्र तत्र हि ।।३६०।। कृतेषु पाणिमोक्षादिकृत्येषु निखिलेष्वपि । सुमङ्गलासुनन्दाभ्यां सहारूढो हयं प्रभुः ।।३६१।। स्फीताविगीतसङ्गीतमुखरीकृतदिङ्मुखः । प्रत्यग्रतोरणद्वारमाययौ निजवेश्मनः ।।३६२।। घोटकं कूईयामासुश्चिरं तत्र वधूवरम् । हर्षोत्कर्षेण कुर्वाणा देवा जयजयारवम् ।।३६३।। लता इव समीरेण प्रमोदेन प्रणोदिताः । पौलोम्याद्याश्च ननृतुर्गीतपूर्णमनोरथाः ।।३६४।। प्रविवेश ततः स्वामी स्वसौधे कृतमङ्गलः । विवाहोत्साहसौन्दर्यरञ्जितत्रिजगजनः ।।३६५।। शुष्कनीलफलस्वादुनानापक्वान्नपेशलाः । शालिसूपघृतप्राज्यप्रलेहव्यञ्जनाद्भुताः ।।३६६।।
मिथो जेमनवाराऽभूरिगौरवसुन्दरा । ताम्बूलांशुकदानाद्यैः सन्माननमथाभवत् ।।३६७।। [युग्मम् *१. 'सौदर्य' प.। . अब्जः (पुं) - चन्द्रः ।
आ. नि. सामायिकनियुक्तिः
निर्गमद्वारे * श्रीऋषभस्वामि* विवाहद्वारम् ।
गाथा-१९४
१३८