________________
राजी
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१३७
मदनस्य फलं ग्राह्यमित्यस्य किल सूचकम् । मदनस्य फलं पाणी बद्धं वध्वोर्वरस्य च ।।३४५।। जीवन्मातापितृश्वश्रूश्वशुरा सुधवाङ्गना । हस्तालेपं ददौ पिष्ट्वा वधूट्योः पाणिपङ्कजे ।।३४६।। अथाम्भोधिपयःपात्र्यां मुक्तलग्नघटीनिभे । जाते सति सहस्रांशुबिम्बे बिम्बीफलद्युति ।।३४७।। श्रुत्वा भाजनशब्दं च सावधानस्ततो हरिः । योजयामास तत्कालं वधूवरकरान्मिथः ।।३४८।। अथान्योन्यस्य पश्यन्तो विस्फारितविलोचनाः । निमेषमप्यकुर्वाणा अन्तरायभयादिव ।।३४९।। रेजिरे ते तदा तत्र तारामेलककारिणः । विशन्त इव वक्षोऽन्तर्मिथस्तारासु सङ्क्रमात् ।।३५०।।। उौः कौतुकधवलान् जगुर्वध्वाः सखीतमाः । नर्मकर्मणि चातुर्यं बिभ्राणास्तत्र केलये ।।३५१।। वधूवरस्य सूत्रामा बद्धवानञ्चलान्मिथः । तेषां मनांसीवोद्गाढमनुरागः परस्परम् ।।३५२।। कौतुकागारतो वेद्यामथानिन्ये वधूवरम् । अवियोजितहस्ताग्रममोचितपटाञ्चलम् ।।३५३।। त्रायस्त्रिंशसुरः कोऽपि चक्रे वेद्यामथाऽनलम् । व्यधामं समित्क्षेपार्दूमपानाय कन्ययोः ।।३५४।। कंसारश्च सखण्डाज्य: पक्कस्तेनैव नाकिना । ताभ्यां प्रभुस्तद्वयी तेनाऽऽश्यत स्वस्वपाणिना ।।३५५।। १. बिम्बीफलद्युतिः ख ल, प, । २. 'वध्वोः' प छ । ३. 'स्तद्धयीनेन' पल, 1.द्युत् - मरीचिः, बिम्बीफलस्येव द्युत् यस्य स बिम्बीफलघुत, तस्मिन् ।
भाजनशब्दः प्राहाने । + उद्गाढं-अत्यन्तम् । धूमपानं - वैद्यकशास्त्रप्रसिद्धा क्रिया ।
tattोती
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिविवाहद्वारम् ।
गाथा-१९४ * अत्र * १३७