________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
藥華藥藥藥華藥業課課
**
श्रूयमाणश्रुतिकटुस्फुटल्लवणनिःस्वनम् । शरावसम्पुटं काचिन्मुमोच द्वारि सानलम् ।।३३३ ।। अथोद्भर्ट पट्टयुगं सन्ध्यारागमिवारुणम् । परिधायाग्रतः काचिदर्घदानोद्यताऽभवत् ।।३३४।। अह्राय जगदाय देहि देह्यर्घमर्घदे!। स्फीतं यश इवामुष्य नवनीतं समुन्नय ।।३३५ ।। "उद्धेह्यस्य वचोवीचीशिशिरं चान्दनं रसम् । दधि चैतद्गुणग्रामवलक्षं क्षिप्रमुत्क्षिप ।।३३६।। समुन्मीलन्महानीलरत्नाङ्कुरसहोदराम् । द्रागेव शाड्वलां दूर्वा सुवासिनि ! समुद्धर ।।३३७।। नन्वेष शेषभोगीन्द्रभोगोपमभुजद्वयः । वरस्ते तोरणद्वारि त्रिजगज्जेत्रविक्रमः ।।३३८।। ऊर्ध्वः समस्ति सर्वाङ्गमुत्तरीयांशुकावृतः । शरदिन्दुरिवोद्गच्छत्र्योत्स्नाजालजटालितः ।।३३९।। भृशं शुष्यन्ति पुष्पाणि वातेनोद्वाति चान्दनम् । तद्द्वारि सुचिरं श्वश्रु ! वरं मा धर मा धर ।।३४०।। इत्येवं धवलान् श्वश्रूः शृण्वाना श्रुतिपावनान् । स्वामिने दत्तवत्यर्घमनर्घ्यगुणशालिने ।।३४१।। धृत्वान्तर्वामहस्तेन विधायाग्रे च दक्षिणम् । युगवैशाखमुशलैश्चक्रे च प्रोङ्क्षणक्षणम् ।।३४२।। मनोरथमिवारीणामऽथो लवणसम्पुटम् । भगवान् सव्यपादेन दलयामास लीलया ।।३४३।। स्कन्धे घट्टाञ्चलेनाऽथ समाकृष्य जगत्प्रभुः । नीत: श्वश्र्वा वधूपान्तमासाञ्चक्रे च शक्रवत् ।।३४४।। १. 'चन्दनम्' प, ख ल ल ।२.'मा स्म धाधीवरंवर' ल, ल ख । ३. घटाञ्चलेन - ख ल ल । .अर्घदे - अर्ध ददाति - अर्घदा तस्याः सम्बोधने । * 'उद्+धा' धातोः आज्ञा. द्वि.पु. एक. उद्धेहि । + वलक्ष - श्वेतम् ।
藥藥業樂業樂業業
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिविवाहद्वारम् । गाथा-१९४
१३६
*
****