SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १३४ अङ्गुलीषु तयोः क्षिप्ताश्चारुहीरकमुद्रिकाः । दोलतायाः फलानीव परिपाकारुणान्यथ ।।३१३।। नद्धा श्रोणो च शिञ्जाना तयोश्चन्द्राश्ममेखला । गुरुनाभीसरस्तीरे हंसावलिरिवोज्ज्वला ।।३१४ ।। मञ्जीराणि तयोधस्यन् ऋणत्कारीणि पादयोः । मरालानाह्वयन्तीव गतिं स्पर्धयितुं मदात् ।।३१५ ।। अथोत्पाट्यामरीभ्यां ते दिव्यभूषणभूषिते । आसिते कौतुकागारे मूर्ते वाणीश्रियाविव ।।३१६ ।। आ. नि. विवाहकल्पमाधातुं विज्ञप्तो वज्रिणा विभुः । भोग्यं कर्मास्ति लोके च स्थितियेत्यमन्यत ।।३१७ ।। सामायिकततश्च कल्पिताकल्पः कृतमङ्गल्यमजनः । विहिताशेषकृत्यश्च कृत्यविद्भिर्यथाविधि ।।३१८।। नियुक्तिः चान्दने रसनिस्यन्दैः कृतदेहविलेपनः । विच्छुरितः पुण्यलक्ष्मीकटाक्षैरिव सर्वतः ।।३१९ ।। निर्गमद्वारे वसानः पारिणेत्राणि शुचीनि सिचयानि च । जिनेन्द्रोऽपि शरन्मेघाकीर्णस्वर्णाचलोपमः ।।३२० ।। *श्रीऋषभस्वामिसौधमध्याद्धरित्रीभृत्कन्दरादिव केसरी । निर्जगाम गुणग्रामद्रुमारामसहोदरः ।।३२१।। विवाहद्वारम् । गाथा-१९४ न्यास्यन् - ल, । २. कलिताकल्पः प, । ३. यथाविधिः ल, प, प, ख, यथाविधेः प, . . 'शिज' - "शिजुकि अव्यक्ते शब्दे' (सिद्धहेम० धातु - ११९३) । * सिचयं -* १३४ वस्वम् ।+ धरित्रीभृत् - नृपः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy