SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ **** आवश्यकनियुक्तिः श्रीतिलका- * चार्यलघुवृत्तिः 準準準準準準準準準 १३२ नवस्वङ्गेषु तिलकान् प्रदेशिन्या सभर्तृकाः । तयोश्चक्रुर्नवनिधीनिव कन्दर्पचक्रिणः ।।२९१ । । जान्वंसं चास्पृशन् सव्यासव्यत्वेन तयोमिथः । कौसुम्भेस्तन्तुभिस्तर्कुसम्पर्किभिरथापराः ।।२९२ ।। ते एवं वर्णके बाले सुरनार्यो निचिक्षिपुः । अस्थातां ते क्षणं तत्र नानाकेलिकुतूहलैः ।।२९३ ।। तदैव तास्तयोर्वेगादुद्वर्णकमपि व्यधुः । विधिना प्राक्तनेनैव पूर्वरूढिरियं ततः ।।२९४ ।। स्नानविष्टरमध्यास्य नपयामासुराशु ते । हिरण्मयघटाम्भोभिः सुखदैरमृतैरिव ।।२९५ ।। अथ प्रमार्जयामासुरङ्गयष्टिं मृगीदृशोः । आदर्शमिव तत्सख्यः सुखस्पर्शेन वाससा ।।२९६ ।। तयोः स्नानजलैरा केशपाशमवेष्टयन् । मसृणैरंशुकोद्देशैरुत्तेजितकृपाणवत् ।।२९७ ।। अश्चोतयन् ततो वारिविपुषस्तत्सखीजनाः । करादिव करीन्द्रस्य शीकरासारमातपः ।।२९८ ।। धूपायन्ति स्म धूपेन स्निग्धकेश्योः सुगन्धिना । ईषदा केशपाशं धौतानीवांशुकानि ताः ।।२९९ ।। तत्पादान् पल्लवाताम्रानपि लाक्षारसेन ताः । अमण्डयन् धियेवेति रक्तं रक्तेन युज्यताम् ।।३००।। सर्वाङ्गमङ्गरागेण तन्वङ्गत्यो व्यलिपन्त ताः । रविर्बालातपेनेव काञ्चनाचलमेखले ।।३०१।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि* विवाहद्वारम् । गाथा-१९४ १३२ 準準準準準準準準準準譯梁梁華擎護 半準準準準準举樂業 • प्रदेशिनी - तर्जनी अङ्गलिका, तया । * 'शुतू - क्षरणे' (धातु-नं. २८२) ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy