SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १३० आ. नि. पञ्चवर्णरवाकीर्ण: कुसुमैरङ्गणावनिः । धत्ते स्म कुसुमास्त्रस्य शस्त्रागारपरिभ्रमम् ।।२६९।। चतस्रोऽभ्रंलिहास्तत्र वेदीकलशपतयः । बिभ्रते स्म स्मरावासावष्टम्भस्तम्भविभ्रमम् ।।२७०।। आर्द्रवंशाः सुपर्वाण: कुम्भावष्टम्भिनो बभुः । ख्यापयन्त इवामूलाद्वरस्योल्लासिपर्वताम् ।।२७१।। यवाङ्करशरावाणि वेदीमध्ये च रेजिरे । अनङ्गस्येव रोमाञ्चा विवाहालोकनोद्भवाः ।।२७२।। तदा समादिदेशका कुलवृद्धव देवता । तत्तदाचारचतुरा पाणिग्रहणकर्मणि ।।२७३।। दूर्वां मेरुवनाद्वाले ! स्थाले स्थापय शाड्वलाम् । चन्दनं च वरार्घाय महायँ सुभ्र ! घर्षय ।।२७४।। प्रगुणीकुरु कल्याणि ! भूयिष्ठं तीक्ष्णकुङ्कमम् । सीमन्तिनीनां सीमन्तपरिपूर्तिकृतेऽचिरात् ।।२७५ ।। त्वं वयस्ये ! प्रशस्यानि पुष्पदामान्युपानय । विचित्ररचनान्मुग्धे ! मुकुटान्निकटीकुरु ।।२७६ ।। चतुष्कान् पूरय द्वारि मुक्ताक्षोदेन सुन्दरि !। वेद्यन्तः कुरु हे ! कामधेनुगोमयगोमुखम् ।।२७७।। निवेशयात्र तन्वङ्गि ! सत्वरं वरमञ्चिके । पवित्राः शतपत्राक्षि ! त्वं चेहानय पादुकाः ।।२७८।। कार्यान्तरं च हित्वा त्वं कस्तुरी सखि ! वर्त्तय । येन पुत्र्योः कपालेषु लिख्यते पत्रवल्लरी ।।२७९।। सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्तव्यता विवाहद्वारम् । गाथा-१९४ १३० १. लेख्यते' प, छ । पर्वतां - पर्व इति लक्षणविशेषः, पर्वणः भावः पर्वता, ताम् । * गोमुखः - लेपः । FRE
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy