________________
आवश्यक- प्रथमा सप्तम्यर्थे ततो 'देशोनके' किञ्चिन्यूने वर्षे जाते सति पुनः शक्रागमनं वंशस्थापनाय । आहारं चाङ्गल्यां मनोज्ञं देवा विदधति * नियुक्तिः स्म । सर्वेऽपि बाल्ये तीर्थकृतः आहाराभिलाषे सति देवैः सञ्चारितसुधारसां स्वाङ्गुलीमेव मुखे प्रक्षिपन्ति । न स्तन्योपयोगं कुर्वन्ति । श्रीतिलका- अतिक्रान्तबालभावास्त्वग्निपक्वमाहारमाहरन्ति । युगादिदेवस्त्वाप्रव्रज्यादिनाद् देवोपनीतमेवाहारमाहतवान् ।।१८९।। अथ प्रकृतं * चार्यलघुवृत्तिः * वंशनामनिदानमाह -
आ. नि.
सामायिक१२६
सक्को वंसट्ठवणे इक्खु अगू तेण हुँति इक्खागा । जं च जहा जंमि वए जुग्गं कासी य तं सव्वं ।।१९०।। * निर्यक्तिः शक्रः सौधर्मेन्द्रो वंशस्थापने प्रस्तुते इक्षु गृहीत्वा आगतः । 'अकअग कुटिलायां गतौ' अनेकार्थत्वाद्धातूनां अक्धातोरुणादिकेउण निर्गमद्वारे प्रत्यये, 'आकु' शब्दोऽभिलाषार्थः । ततः स्वामी इक्षोः आकुनाभिलाषेण कर प्रासारयत् । शक्र आर्पयत् । तेन कारणेन भवन्ति श्रीऋषभस्वामि* इक्ष्वाकुवंशस्तत्र भवा ऐक्ष्वाकाः । यञ्च यथा यस्मिन् वयसि योग्यं तत्सर्वं शक्रोऽकार्षीत् । कथाशेषश्चात्र -
वक्तव्यता जीतमेतत्समस्तानां साम्प्रतातीतभाविनाम् । आद्यतीर्थकृतां शक्रा वंशन्यासं प्रकुर्वते ।।२४४।।
आहारवंशादि।
गाथा-१९० ततः परिवृत्तो देवैर्यामि रिक्तकरः कथम् । इतीक्षुयष्टिमादाय महतीं शक्र आययो ।।२४५।। पुरोऽस्ति कुलकृत्राभिः स्वामिनोत्सङ्गसङ्गिना । नत्वा शक्र उपाविक्षत् स्वामीक्षौ चक्षुरक्षिपत् ।।२४६।।
१२६
*
*
*