________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१२४
******
************
वन्दित्वा नमंसित्वा चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके ! विश्वदीपिके ! ।। २२२ ।। अहं शक्रोऽस्मि देवेन्द्रः कल्पादाद्यादिहागमम् । प्रभोर्युगादिदेवस्य करिष्ये जननोत्सवम् ।।२२३ ।। भेतव्यं देवि ! तत्रैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ।।२२४ । भगवन्तं तीर्थङ्करं गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं सर्वश्रेयोऽर्थिकः स्वयम् ।। २२५ ।। एको गृहीततीर्थेश : पार्श्वे द्वावात्तचामरी । एको गृहीतातपत्र एको वज्रधरः पुनः ।। २२६ ।। शक्रराजस्ततश्चातुर्निकायिकसुरान्वितः । शीघ्रं सुमेरुर्येनैव वनं येनैव पण्डकम् ।। २२७ ।। मेरुचूलां दक्षिणेनातिपाण्डुकम्बला शिला । सिहासनं चाभिषेकं तेनैवोपैति देवराट् ।।२२८ ।। तत्र सिंहासने पूर्वाभिमुखे च निषीदति । द्वात्रिंशदपि देवेन्द्राः स्वामिपादान्तमैयरुः ।। २२९ ।। अच्युतेन्द्रस्तत्र पूर्वं विदधात्यभिषेचनम् । ततोऽनु परिपाटीतो यावच्छक्रोऽभिषिक्तवान् ।। २३० ।। ततश्च चमरादीन्द्रा यावचन्द्रार्यमादयः । एवं जन्माभिषेकस्योत्सवं निर्वर्त्य देवराट् ।।२३१ ।। हर्षप्रकर्षात्सर्वद्धय प्राग्वत्सर्वामरान्वितः । तीर्थनाथमुपादाय सद्यः प्रत्यागमत् क्षणात् ।।२३२।। प्रतिसंहृत्य तीर्थेशप्रतिबिम्बं सपद्यपि । तत्र मातुः सन्निधाने भगवन्तमतिष्ठिपत् ।।२३३ ।।
***************
*************
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्री ऋषभस्वामि
वक्तव्यता
जन्म ।
गाथा - १८८
१२४