________________
举業業樂業举業業藥
१२१
****
आवश्यक- वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा । क्वाऽप्यवीक्षितमीदृक्षं प्रेक्षमाणा इव प्रभुम् ।।१८८।। नियुक्तिः उड्योतस्त्रिजगत्यासीदवानदिव दुन्दुभिः । नारका अप्यमोदन्त भूरप्युच्चासमासदत् ।।१८९।। श्रीतिलका- दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अर्हज्जन्मावधेख़त्वाऽभ्येयुस्तत्सूतिवेश्मनि ।।१९०।। चार्यलघुवृत्तिः * भोगङ्करा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ।।१९१।।
नत्वा प्रभुं तदम्बां चेशाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मामायोजनमितो गृहात् ।।१९२।। मेघरा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहिका ।।१९३।। अष्टोर्ध्वलोकादेत्येता नत्वार्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पोघवर्ष हर्षाद्वितेनिरे ।।१९४ ।। अथ नन्दोत्तरानन्दे आनन्दानन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ।।१९५।। अष्टावभ्येत्य पौरस्त्यरुचकारे रयादिमाः । जिनं जिनाम्बां नत्वाऽस्थुः प्राच्या दर्पणपाणयः ।।१९६ ।। समहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ।।१९७।। अपाच्यरुचकाद्रेश्चाष्टैत्य देवं समातृकम् । प्रणम्य दक्षिणेनेतास्तस्थुर्भृङ्गारपाणयः ।।१९८।।
इलादेवी सुरादेवी पृथिवी पद्मवत्यपि । एकनासा नवमिका भद्रा सीतेति नामतः ।।१९९।। *१. 'क्वापि वीक्ष्यतेऽमीदृक्ष' ल, । २. 'प्रेक्ष्यमाणा' ल, ख ।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता जन्म ।
गाथा
१८७
準譯擎举譯筆譯藥華婆
१२१