________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
११७
************
अपुव्वनाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो । ।१८१ ।।
अर्हन्तः । १ । सिद्धाः । २ । प्रवचनं श्रुतज्ञानं तदाधारत्वाद्वा सङ्घः । ३ । गुरुः |४ | स्थविरस्त्रिधा जन्मस्थविरः षष्टिवर्षः, श्रुतस्थविरः, समवायधरः, पर्यायस्थविरः विंशतिवर्षपर्यायः । ५ । बहुश्रुताः बहुसूत्रार्थोभयधराः । ६ । तपस्विनो मासक्षपकाद्याः ॥७। एषां वत्सलतया बहुमानसम्यग्गुणोत्कीर्तनयथार्हार्चावैयावृत्यरूपया अभीक्ष्णज्ञानोपयोगे च । ८ । दर्शनं सम्यक्त्वं । ९ । विनयोऽभ्युत्थानादिरूपः | १० | आवश्यकं अवश्यकर्तव्यसंयमव्यापारनिष्पन्नं तस्मिन् पिण्डविशुद्ध्याद्युत्तरगुणकलापे । ११ । शीलप्रधानानि व्रतानि शीलव्रतानि मूलगुणास्तेष्वनतिचारः ।१२। ‘क्षणलवतपस्त्यागः' - क्षणलवग्रहणं कालोपलक्षणं क्षणलवादिषु संवेगभावनया । १३। तपसा चतुर्थादिना ।१४। त्यागेन साधूनां भक्तपानभेषजादिदानेन । १५ । वैयावृत्त्ये दशविधे सति । १६ । समाधिर्गुर्वादिकार्यकरणद्वारेण स्वस्थताकरणं तत्र च श्रीऋषभस्वामिसति । १७ । अपूर्वज्ञानग्रहणे | १८ | श्रुतभक्त्या श्रुतबहुमानेन । १९ । प्रवचनप्रभावनया क्वापि सङ्कटे महाप्रभावदर्शनेन । २० । एतैः कारणैस्तीर्थङ्करत्वं लभते जीवः ।।१७९-१८०- १८१ । ।
वक्तव्यता । गाथा१८१-१८३
पुरिमेण पच्छिमेण य एए सव्वेवि फासिया ठाणा । मज्ज्ञिमएहिं जिणेहिं इक्कं दो तिनि सव्वे वा ।।१८२ ।।
११७
स्पष्टा ।।१८२ ।।
तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइय भवोसक्कइत्ताणं ।। १८३ ।
आ. नि. सामायिक
निर्युक्तिः