SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११५ स्वयं सांवत्सरं दानं दत्त्वा संयममग्रहीत् । तुर्यज्ञानं तदा भर्तुः सङ्केतितमिवामिलत् ।।१५४ ।। राजा भ्रातृ॑श्चतुरोऽपि लोकपालानिवाकरोत् । राजपुत्रं सुयशसं सारथ्ये च न्यवेशयत् ।।१५५।। वज्रसेनजिनस्याभूत्केवलज्ञानमेकतः । अन्यतश्चक्रशालायामुत्पन्नं चक्रमायुधम् ।।१५६ ।। भगवन्तं ततोऽभ्यर्च्य चक्रं चानु प्रपूज्य च । साधयामास सकलां पृथ्वी देशैकलीलया ।।१५७।। चक्रे च चक्रवर्तित्वाभिषेकोऽस्याखिलैर्नृपः । अपालयश्चिरं राज्यमेकच्छत्रं महीतले ।।१५८।। अन्यदा समवासार्षीद् वज्रसेनजिनेश्वरः । व्याख्यामधरितद्राक्षां श्रुत्वा चक्रयादयोऽबुधन् ।।१५९।। पुत्रं निवेश्य राज्ये स्वे वज्रनाभः ससारथिः । चतुर्भितृभिः सार्धं प्रवव्राजान्तिके प्रभोः ।।१६० ।। प्राप्तकालं वज्रसेनस्तीर्थकृत्रिवृतिं ययौ । वज्रनाभो द्वादशाङ्गी परे चैकादशाङ्गिनः ।।१६१।। बाहुः साधुपञ्चशत्या भक्तपानान्यपूरयत् । सुबाहुः सर्वसाधूनामङ्गविश्रामणां व्यधात् ।।१६२।। साधू पीठमहापीठो रहः स्वाध्यायकारिणौ । बाहुं सुबाहुमाचार्यो लोकः सर्वश्च शंसति ।।१६३।। धन्यावेतौ महासत्त्वो वैयावृत्त्यं सुदुःकष्किारम् । कुरुतः कुरुते कोऽन्यः कष्टमाङ्गिकमीदृशम् ।।१६४।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्तव्यता । गाथा-१७३ १७४ ११५ Tar *. हैमधातुक्रमाङ्कः - ९१२ 'बुधग बोधने' अद्यतनीरूपः । (*****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy