SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११४ ·举羊羊準準準準準譯学 द्वितीयेऽभ्यङ्गे मांसस्थास्तृतीये चास्थिसंस्थिताः । कृमयो निर्ययुः सर्वे मन्त्राकृष्टा इवाहयः ।।१४२।। संरोहणोषधैः साधु स्वर्णकान्तिमथाकरोत् । विजहार ततः साधुर्नवीकृतवपुः स तैः ।।१४३।। रत्नकम्बलगोशीर्षचन्दनस्य च विक्रयात् । चैत्यं ते कारयामासुमेरुशृङ्गमिवोत्रतम् ।।१४४।। कृत्वा द्रव्यस्तवं तेऽथ भावस्तवचिकीर्षवः । सुसाधुसन्निधौ दीक्षां षडप्यादाय धीधनाः ।।१४५।। चिरं चारित्रमाचर्य निरतीचारसुन्दरम् । मृत्वा षडपि तेऽभूवनच्युते त्रिदशोत्तमाः ।।१४६ ।। जम्बूद्वीपाभिधे द्वीपे विदेहाधं च पूर्वतः । विजये पुष्कलावत्यां नगरी पुण्डरीकिणी ।।१४७।। वज्रसेनो नृपस्तत्र धारिणी तस्य वल्लभा । तेष्वच्युतच्युताः पञ्च तत्पुत्राः क्रमशोऽभवन् ।।१४८।। चतुर्दशमहास्वप्रसूचितः प्रथमोऽङ्गजः । वज्रनाभाख्यया ख्यातो वैद्यस्यात्मा विविक्तधीः ।।१४९।। . बाहुपसुतस्यात्मा सुबाहुर्मन्त्रीसन्ततेः । आत्मा पीठो महापीठः श्रेष्ठिसार्थेशपुत्रयोः ।।१५०।। केशवस्य च जीवोऽभूत्सुयशा राजपुत्रकः । आश्रितो वज्रनाभस्य शैशवादपि सोऽभवत् ।।१५१।। ते वर्धन्ते स्म षडपि षड्गुणा इव देहिनः । कलाचार्यात्कलाः सर्वे स्पर्धयेवाच्छिदन धिया ।।१५२।। लोकान्तिकरथेत्युक्ते स्वामिस्तीर्थ प्रवर्तय । वज्रसेनस्ततो राज्ये वज्रनाभं न्यवेशयत् ।।१५३।। **************** आ.नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्तव्यता। गाथा-१७३ १७४ ११४ XXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy