SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११३ वृद्धः करोमि किं नाहमतस्तानाह स प्रधीः । गोशीर्षकम्बलौ गृह्णन्त्वस्तु श्रेयोऽत्र मे फलम् ।।१३५।। तौ समर्प्य स धर्मेण धर्मात्माश्रेष्ठिपुङ्गवः । व्रतं संगृह्य कर्माणि निगृह्य च शिवं ययौ ।।१३६।। ।।१७२।। अमुमेवार्थमुपसंहरन्गाथाद्वयमाह - विजसुयस्स य गेहे किमिकुट्ठोवद्दुयं जई दटुं । बिंति य ते विजसुयं करेहि एयस्स तेगिच्छं ॥१७३।। तिल्लं तेगिच्छिसुओ कंबलगं चंदणं च वाणियओ । दाउं अभिनिक्खंतो तेणेव भवेण अंतगडो ।।१७४ ।। उक्तार्थे । कथाशेषमुच्यते - षडप्योषधसामग्री कृत्वाऽगुर्मुनिसनिधौ । अनुज्ञाप्य मुनीन्द्रं तं चिकित्सामारभन्त ते ।।१३७।। मुनेः सर्वाङ्गमभ्यङ्गं तेन तैलेन ते व्यधुः । तद्वीर्येण तदाक्रान्तः साधुनिश्चेतनोऽभवत् ।।१३८।। आकुलास्तेन तैलेन कृमयो निर्ययुर्बहिः । जीवानन्दस्ततो रत्नकम्बलेन तमावृणोत् ।।१३९।। सर्वेऽपि कृमयो लग्नाः शीतत्वाद्रत्नकम्बले । वैद्यस्ततोऽक्षिपत् सर्वान् कृमींस्तान् गोशबोपरि ।।१४०।। साधुमाश्वास्य गोशीर्षचन्दनेनाऽथ सोऽलिपत् । आद्याभ्यङ्गेन कृमयस्त्वग्गता निर्गता मुनेः ।।१४१।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता । गाथा-१७२ १७४ ११३ १
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy