SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ :2EKKER आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११० कियत्यपि गते काले ललिताङ्गस्ततश्च्युतः । जम्बूद्वीपे प्राग्विदेहाब्य्यन्ते सीतोत्तरे तटे ।।१०४।। विजये पुष्कलावत्यां लोहार्गलमहापुरे । सुवर्णजङ्घलक्ष्मीभूर्वज्रजङ्घः सुतोऽभवत् ।।१०५।। स्वयम्प्रभाप्यथ च्युत्वा विजयेऽत्रैव साभवत् । चक्रिण: पुण्डरीकिण्यां वज्रसेनस्य पुत्रिका ।।१०६ ।। यौवने चन्द्रशालास्था श्रीमती सुस्थितस्य सा । उद्याने केवलोत्पत्तौ विलोक्यागच्छतः सुरान् ।।१०७।। जातजातिस्मृतिर्दध्यो ललिताङ्गः क्व मे पतिः । तदज्ञानात्तदप्राप्तौ मौनमेवास्तु मेऽधुना ।।१०८।। कृतैरप्युपचारौधैः सा मुमोच न मूकताम् । धात्र्या पृष्टा रहः प्राह पटमालिख्य चार्पयत् ।।१०९।। चक्रिणो वज्रसेनस्य वर्षग्रन्थी नृपागमे । तं पटं पण्डिता धात्री धृत्वा राजपथे स्थिता ।।११०।। तत्रागाद्वज्रजनोऽपि तं दृष्ट्वा जातिमस्मरत् । उवाचेदं चरित्रं मेऽलिखनूनं स्वयम्प्रभा ।।१११ । । अभिज्ञानानि सर्वाणि पण्डिताया अपूरयत् । श्रीमत्यै साऽथ गत्वाऽऽख्यत्तदैव मुमुदे च सा ।।११२।। पितुळज्ञपयत्ता श्रीमती पण्डितामुखात् । पिताऽपि तत्क्षणात् वज्रजङ्घमाजूहवत्ततः ।।११३ ।। ऊचे राजा वज्रजङ्गं तव प्राग्भवपल्यसो । अस्मिन्नपि भवे ते स्यादिति तां पर्यणाययत् ।।११४ ।। सह श्रियेव श्रीमत्या वज्रजको मुकुन्दवत् । जगाम राज्ञानुज्ञातो लोहार्गलपुरं निजम् ।।११५ ।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता । गाथा-१७१ ११०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy