SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः १०८ ततो राज्ये निजे पुत्रमभिषिच्यानुशिष्य च । सप्तक्षेत्र्यां धनं प्राज्यमुप्त्वा मुक्त्वा परिग्रहम् ।।८० ।। ततः प्रव्रज्य राजर्षिर्द्वाविंशतिदिनानि सः । कृत्वानशनमीशाने विमाने श्रीप्रभाभिधे ।। ८१ ।। श्रीतिलका- * ललिताङ्गाभिधो जज्ञे शक्रसामानिकः सुरः । देवी स्वयम्प्रभा तस्य तत्र दिव्यप्रभा प्रिया ।।८२ ।। चार्यलघुवृत्तिः क्रीडतोरपृथक्त्वेन मनसोरिव देहयोः । तयोः कालो ययौ भूयांयुताऽन्येद्युः स्वयम्प्रभा ।। ८३ ।। मुमूर्च्छ ललिताङ्गोऽपि वज्रेणेवाभिताडितः । मनोभिरामरामाया विगमे कस्य नाऽसुखम् ।।८४ ।। मूर्च्छान्ते विललापोचैर्मुक्तकण्ठं रुरोद च । अज्ञानस्त्रीव शोकार्त्ता शोकमाविश्चकार सः ।।८५ ।। स्वयम्बुद्धोऽपि तन्मन्त्री पश्चादादाय संयमम् । ईशानेऽजनि पूर्णायुः सोऽपि शक्रसमः सुरः ।। ८६ ।। सोऽवधेः स्वामिनं ज्ञात्वा ललिताङ्गमुपागमत् । प्राग्वत् प्राबोधयद् धर्माख्यानैः शोकापनोदवित् ।। ८७ ।। उपयुज्यावधिं ज्ञात्वा पुनस्तं स्माह मा मुहः । भाविनी भवतो भार्या मया ज्ञातास्ति तच्छृणु ।।८८ ।। द्वीपे धातकीखण्डे प्राग्विदेहावनावभूत् । नन्दीग्रामे गृहपतिर्नागिलोऽतीव दुर्गतः ।।८९।। नागश्रीस्तस्य भार्याभूत्कन्याः षट् जनितास्तया । प्रायेण हि दरिद्राः स्युर्बहुकन्या बहुक्षुधः । । ९० ।। तत् प्रियासीत्पुनर्गुर्वी नागिलोऽथ व्यचिन्तयत् । स्याद्यद्यस्याः सुतैवातो यास्याम्यूर्ध्वमुखः क्वचित् । । ९१ । । ********** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामि वक्तव्यता । गाथा - १७१ १०८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy