________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
१०५
**************
पुनरूचे ध्रुवं पूज्या ! अमृतेनैव निर्मिताः । अमन्तोर्वा समन्तोर्वा यूयं समदृशस्ततः ।। ४६ ।। न्यमन्त्रयदथो पूज्यान् साधून् प्रेषयताधुना । यच्छामि प्रासुकाहारमाधारं देहवेश्मनः । । ४७ ।।
स्वावासमित्युक्त्वा पश्चात्प्रेषिन्मुनिद्वयम् । तदर्हमन्यदन्नाद्यमपश्यन् किञ्चनापि सः ।।४८ ।। त्यानीभूतं घृतं दृष्ट्वा स्माहेदं गृह्यतां प्रभो ! साधुः शुद्धमिति ज्ञात्वा पतद्ग्रहमधारयत् ।। ४९ ।। हिमस्त्यानं प्राज्यमाज्यं निर्मलं निर्मलात्मकः । स्वयं यथेष्टं दत्ते स्मानन्यसामान्यभावनः । । ५० ॥ स्वयं ददत्तदा दानं बीजं मोक्षमहातरोः । तीर्थकृत्कर्मास्कलनं सम्यग्दर्शनमासदत् । । ५१ ।। ।।१७० ।। सङ्ग्रहमाह - धणसत्थवाह घोसण जइगमणं अडविवासठाणं च । बहुवोलिणे वासे चिंता घयदाणमासि तया । । १७१ ।। उक्तार्था ।। धन्यंमन्योधनोऽनंसीदानान्ते तन्मुनिद्वयम् । तदप्यात्माशिषं दत्वा धनायागान्निजाश्रयम् ।।५२ ॥ रजन्यामथ सार्थेशी गुरून्नन्तुमुपागमत् । गुरवो धर्ममादिक्षन् मोक्षसोपानपद्धतिम् ।। ५३ ।। गुरूपदेशपीयूषप्रवाहेण प्रसर्पता । पूरितं सार्थपस्याभून्मानसं मानसोपमम् ।।५४ ॥
गुरून्नत्वा महासत्त्वान् भावनां भावयन्त्रथ । कृतार्थं मन्यमानः स्वं सौवं धाम जगाम सः ।। ५५ ।।
१. 'भावतः ' प ल ।
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
* श्रीऋषभस्वामि
* वक्तव्यता । गाथा - १७१
१०५
*****