________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
१०२
*MME MEMEM
米鮪餓華榮華米葉葉派1
तमागच्छन्तमालोक्य सचक्रानन्दकारकम् । सार्थवाहो नमस्कृत्य प्रस्फुटत्कण्टको द्विधा ।। १३ ।। उपवेश्यासनेऽप्राक्षीगुरोरागमकारणम् । वसन्तपुरमेष्यामस्त्वया सहेति तेऽभ्यधुः । । १४ । । स्तुत्वा तान् सार्थपो भक्त्या सूदानिति समादिशत् । सम्पाद्यमन्नपानाद्यमेषां निःशेषमन्वहम् ।। १५ ।। आचार्या अपि तस्याख्यन् शुद्धिमाहारगोचरम् । तदा च कोऽपि पक्वाम्रस्थालं तस्योपनीतवान् ।। १६ ।। सार्थवाहोऽवदत्पूज्या ! विधायानुग्रहं परम् । स्त्यानीभूतसुधाभानि गृह्णीताम्राण्यऽमूनि मे ।। १७ ।। सार्थपैतानि कल्पन्ते नाशस्त्रोपहतानि नः । धनोऽवादीद् व्रतं पूज्या ! यौष्माकमतिदुःक[ष्क] रम् ।।१८।। कल्प्यमन्त्रादिवः सर्व पूज्याः ! सम्पादयिष्यते । प्रातः प्रयाणं भावीतस्तदागत्याऽत्र तिष्ठत । । १९ ।। चक्रे प्रयाणं सार्थेश गुरवोऽपि सहाचलन् । सञ्जातेषु प्रयाणेषु ततः कतिपयेष्वपि ।। २० ।। उज्जृम्भे तदा ग्रीष्मः कालः कलितयौवनः । स्वकीयेनोष्मणा ज्वालाजिह्वमप्यवहेलयन् ।।२१।। नृपस्येव निदाघस्य महायोध इवार्यमा । करैः शरैरिवाशेषान् जनानाऽऽहन्त्यरीनिव ।। २२ ।। तदा तापादिवोष्णांशुस्तृष्णातिशयविह्वलः । पिबन् करसहस्रेण जलस्थानान्यशोषयत् ।। २३ ।। भावि इतः इति वाच्यम् । * ज्वालाजिह्नः वह्निः तम् ।
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीऋषभस्वामि
वक्तव्यता ।
गाथा - १७०
१०२