SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 華藥業 आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०१ 業樂業藥華藥華藥藥華藥業課 業業業業藥華藥業業業業準準準譯業業 विदेहे पश्चिमासंस्थे क्षितिमण्डलमण्डनम् । क्षितिप्रतिष्ठितं नाम नगरं सुप्रतिष्ठितम् ।।२।। प्रियङ्करकरस्तत्र राजा राजेव विश्रुतः । शुचिः कुवलयोल्लासी प्रसन्नचन्द्रनामकः ।।३।। आसीत्तत्र धनः सार्थवाहः पितृगृहं श्रियः । सषष्टि त्रिशतीसङ्घयक्रयाणकमहाकरः ।।४।। क्रयाणकानि सङ्गृह्य वणिज्यार्थं कृतोद्यमः । सोऽपरेधुर्गन्तुकामो वसन्तपुरपत्तनम् ।।५।। सर्वलोकोपकाराय सार्थवाहो धनस्तदा । आघोषयत्पुरे कृत्स्ने भेरीवादनपूर्वकम् ।।६।। यो मया सममभ्येति तस्य सर्वमहं ददे । क्रयाणान्यक्रयाणस्याऽवाहनानां च वाहनम् ।।७।। सहायमसहायस्याऽशम्बलानां च शम्बलम् । दस्युभ्यः श्वापदादिभ्यस्त्रास्येऽहं पथि बन्धुवत् ।।८।। अन्नः पानस्तथा वस्त्रैः पात्रैरौषधभेषजैः । विस्तरयति यो येन सर्वं यच्छामि तस्य तत् ।।९।। तच्छ्रुत्वा वणिजोऽनेके संवहन्ति स्म सत्वरम् । व्यवहर्तुं परे भोक्तुं दरिद्रद्रमकादयः ।।१०।। प्रस्थानं सुमुहूर्तेऽथ सार्थवाहो विनिर्ममे । भाविमङ्गलसंसूचिविहितानेकमङ्गलः ।।११।। अत्रान्तरे धर्मघोषाचार्यः सूर्य इवापरः । पादैः पवित्रयन् भूमिं दीप्यमानस्तपस्त्विषा ।।१२।। * १. पश्चिमासंस्थि' ख, ल । पश्चिमासंस्थः - पश्चिमदिशि सम्यक् स्थितः संस्थः तस्मिन् । * राजा - चन्द्रः । आ. नि. सामायिकनियुक्तिः निर्गमद्वारे *श्रीऋषभस्वामि वक्तव्यता । गाथा-१७० 擦擦擦擦擦擦擦捲捲捲捲捲影器: १०१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy