________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१००
*******
देवकुरूत्तरकुरुक्षेत्रकल्पद्रुफलक्षीरोदजलरूप आहार आसीत् । ।१६९ ।। सा च भरतदण्डनीतिश्चतुद्धेत्याह -
भा. परिभासणा उ पढमा मंडलिबंधो उ होइ बीया उ । चारग छविछेयाई भरहस्स चउव्विहा नीई ||३|| परिभाषणा प्रथमा सकोपं मा यासीरित्यपराधिनं प्रत्यभिधानम् । मण्डलिबन्धः - इतः स्थानान्न गन्तव्यम् । चारको गुप्तिगृहम्, छविच्छेदो हस्तपादनासिकाच्छेदः । उक्तः कुलकरवंशः । अथेक्ष्वाकुवंशः । स च ऋषभमूलोऽतस्तद्वक्तव्यतामाह
नाभी विणीयभूमी मरुदेवी उत्तरा असाढा य । राया य वइरनाहो विमाण सव्वट्ठसिद्धीओ ।।१७० ।।
नाभिः कुलकरो विनीता भाविनगरी तस्यां भूमौ अवसत् । मरुदेवी तस्य भार्या राजा च प्राग्भवे वैरनाभनामा प्रव्रज्य तीर्थङ्कर नामकर्म बद्ध्वा सर्वार्थसिद्धिमवाप्य ततो मरुदेवाकुक्षौ उत्तराषाढानक्षत्रेऽवातरत् । यथादौ ऋषभस्य सम्यक्त्वावाप्तिर्यथा च तीर्थकृन्नामकर्मबन्ध इत्येतच्चतुर्दशभिर्गाथाभिराह
-
सुब्बललियंग य वइरजंघ मिहुणे य । सोहम्म विज्ज अचय चक्की सव्वट्ट उसमे य । । १ । । [ प्रक्षिप्ता ] द्वीपोऽस्ति जम्बूद्वीपोऽत्र सदा यः परिरभ्यते । अम्भोधिना चिरायातमित्रवल्लहरीभुजैः ||१||
मूलगाथा १७१ -१८४ यावत् । * इयं गाथा अन्यकर्त्तृकी ।
आ. नि. सामायिकनिर्युक्तिः
* निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता ।
गाथा - १७०
भा. गाथा-३ १००