________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९२
******
***************
चलितास्तमनु क्वापि तमवीक्ष्य भयद्रुताः । दिग्विमूढा महाटव्यां पतिताः शून्यचेतसः । । १० ।। नयसारोऽब्रवीदेवमाकर्ण्य यतिनां गिरः । आः सार्थेशः स पापीयान् यस्त्यक्त्वामून् मुनीनगात् ।। ११ । । ततः संवेगमायातः पथश्रमजुषो मुनीन् । विपुलेनान्नपानेन भक्त्या तान् प्रत्यलाभयत् ।।१२।। भुक्तोत्थितांस्ततः साधून् स्वयं स कृतभोजनः । भगवन्तोऽधुना यात मार्गं वो दर्शयामि यत् ।। १३ ।। पुरोऽभून्नयसारः स साधवश्च तमन्वगुः । प्रापुः पत्तनपन्थानमथ तत्र तरोस्तले ।। १४ ।। उपविश्य गुरुस्तस्य विदधे धर्मदेशनाम् । प्रबुद्धः सोऽथ सम्यक्त्वं प्रतिपेदे तदन्तिके ।। १५ ।। धन्यंमन्योऽथ तान्नत्वा वलित्वा दारुसञ्चयम् । भूभुजे प्रेषयामास स्वग्रामे तु स्वयं ययौ ।। १६ ।। मुनयः पत्तनं प्रापुर्नयसारश्च शुद्धधीः । चिरं प्रपाल्य सम्यक्त्वमत्यन्ताभीष्टपुत्रवत् ।।१७।। विधायाराधनामन्ते नमस्कारपरायणः । विपद्याजनि सौधर्मे देवः पल्योपमस्थितिः । ।१८।। ।। १४६ ।। अस्यैवार्थस्योपदर्शकं भाष्यकृद्गाथायुग्ममाह -
भा. अवरविदेहे गामस्स चिंतगो रायदारुवणगमणं । साहू भिक्खनिमित्तं सत्था हीणे तहिं पासे ।। १ ।। भा० दाणऽन्न पंथनयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उववन्नो पलियाउ सुरो महिड्डीओ ॥ २ ॥
आ. नि.
सामायिक
निर्युक्तिः द्वारविधिः
निर्गमः ।
गाथा - १४६
भा. गाथा
१-२
९२