________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
८८
*****
दत्तं मया दुष्ठु मयात्तमिति वादिनोः । मा कूटं जल्पेत्युक्तेऽपि कलिर्नाचार्यशिष्ययोः ।। ११ । ।
यद्वाभीरो वेत्ति धारा मास्यत्येतावती घटे । तथाचार्योऽपि शिष्यं वेत्तीयदालापकक्षमम् ।।१२।।
उक्त व्याख्यानविधिः ।। १३९ ।। प्राग् मुक्तं द्वारविधिं सनयविधिं सम्प्रत्याह
उद्देसे निद्देसे य निगमे खित्तकालपुरिसे य । कारणपचयलक्खणनए समोआरर्णाणुम । । १४० ।।
कि कैइविहं कस्स कहिं केसु कह केचिरं हवइ कालं । " कइ संतर मविरहियं भवागरिस फासण निरुत्ती । । १४१ । । [द्वारगाथा]
T
उद्देशः सामान्याभिधानं अध्ययनम् । निर्देशो विशेषाभिधानं सामायिकम् । निर्गमः कुत एतन्निर्गतम् । क्षेत्र-क्व क्षेत्रे । कालः कस्मिन्काले । पुरुषः कुतः पुरुषात् । कारणं गौतमादयः किमिति शृण्वन्ति । प्रत्ययः केन भगवतेदमुपदिष्टं को वा गणधराणां श्रवणे प्रत्ययः । लक्षणं श्रद्धानादि । नया नैगमाद्याः । समवतरणं नयानां यत्र सम्भवति । अनुमतं कस्य व्यवहारादेः किमनुमतं सामायिकम् । "किं कतिविधं "कस्य "क्व "केषु "कथं "कियचिरं भवति कालम् । "कियन्तः सामायिकप्रतिपत्तारः पूर्वप्रतिपन्ना वा । सान्तरं सहान्तरेण वर्तते इति सान्तरम्, तत्र किमन्तरमिति वाच्यम् । अविरहितं अविरहेण कियन्तं कालं प्रतिपद्यते । भवा इति कियतो भवानुत्कृष्टतस्तदवाप्यते । आकर्षः एकानेकभवेषु तद्ग्रहणौनि ।। स्पर्शना कियत् क्षेत्रं सामायिकवन्तः स्पृशन्ति । निश्चिता
आ. नि.
सामायिक
निर्युक्तिः द्वारविधिः
सनयविधिः ।
गाथा १४०-१४१
८८