SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८७ 非罪準準準準詳業準譯 * आ. नि. सामायिकनियुक्तिः एवं शिष्याः प्रतीच्छा वा वैयावृत्यकरा गुरोः । सुखप्राप्यं श्रुतं तेषामन्येषां दुर्लभं पुनः ।।५।। भेर्युदाहरणं पूर्ववत् । अथाभीरी - आभीरमिथुनं ग्रामाद्धृत्वा घृतघटेरनः । विक्रेतुं नगरे क्वापि जगामापणवीथिकाम् ।।१।। घटानुत्तार्यमाणांश्चाधःस्थाभीरी प्रतीच्छति । आभीरः शकटान्तःस्थोऽर्पयनस्ति क्रमेण च ।।२।। तदा चानुपयुक्तत्वादपणे ग्रहणेऽपि वा । अन्तराले घटो भग्न आभीरी स्माह तं रुषा ।।३।। आभीरादृष्टकल्याण ! किं पश्यस्यन्यतोऽन्यतः । भङ्क्त्वा घटं निविष्टोऽसि तभूली भक्षयाधुना ।।४।। स उवाच त्वया पापे ! पौरेषु क्षिप्तचक्षुषा । जगृहे न घटः सम्यक्ततो भग्नस्त्वदग्रतः ।।५।। एवं विवदमानौ तौ रटन्तौ राटिमुश्चकैः । मुष्टामुष्टि केशाकेशि दण्डादण्डि च चक्रतुः ।।६।। विवादे च तयोरेवमन्यदप्युज्झितं घृतम् । उत्सूरे व्रजतोश्चाथ सर्वं चौरैरगृह्यत ।।७।। एवं शिष्योऽप्यधीयानः स कूटं शिक्षितो वदेत् । युष्माभिरेव व्याख्यातमेवमित्थं कलिर्भवेत् ।।८।। एवमाभीरमिथुनस्यान्यस्य पतिते घटे । त्वरितं त्वरितं द्वाभ्यां जगृहे कर्परघृतम् ।।९।। किञ्चिद्गतमथाभीरोऽवग् मया सुष्टु नार्पितम् । आभीर्याह मया सुष्ठ नाददे नाभवत्कलिः ।।१०।। • अनस् - शकटः । व्याख्यान* विधिः * शिष्यपरीक्षायां दृष्टान्ताः । गाथा-१३९ ८७ ****** 装带紧紧紧
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy