________________
CCE
Cast
८-श्री
मल्ली
नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाले ५१३६ ॥
जाताध्य. मोहनगृहादि
वर्णनम् ।
सप्पै सर्पकलेवरस्य गन्ध इत्यर्थः, अथवा-अहिमृतं-सर्पकलेवरं तस्य यो गन्धः, सोऽप्युपचारात् तदेव; इतिरुपदर्शने वा विकल्पे, अथवा-' से जह'त्ति-उदाहरणोपन्यासोपक्षेपार्थः; 'अहिमडे इव 'ति-अहिमृतकस्येव अहिमृतकमिव वेति, यावत्करणादिदं दृश्यं-'गोमडेइ वा, सुणगमडेइ वा, दीवगमडेइ वा, मजारमडेइ वा, मणुस्समडेइ वा, महिसमडेह वा, मूसगमडेइ वा, आसमडेइ वा, हस्थिमडेइ वा, सीहमडेइ वा, वग्घमडेति वा, विगमडेइ वा, दीवियमडेइ वा,' द्वीपिक:-चित्रकः, किंभूते अहिकडेवरादौ किंभृतं वा तदित्याह-' मयकुहियविणद्वदुरभिवावण्णदुम्मिगंधे' मृतंजीवविमुक्तमानं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थः। तथा विनष्टं-उच्छ्नत्वादिभिर्विकारैः स्वरूपादपेतं सत् यदुरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन-शकुनिभृगालादिभिर्मक्षणाद्विरूपां विभत्सामवस्था प्राप्तं सद्यद् दुरभिगन्धं-तीव्रतमाशुभगन्धं तत्तथा, ततः पदत्रयस्य कर्मधारयः। तत्र तदेव वा 'किमिजालाउलसंसत्ते'-कृमिजालेराकुलैः-व्याकुलैः आकुलं वा-सङ्कीर्ण यथा भवतीत्येवं संसक्तं-सम्बद्धं यत्र तत्तथा, तत्र तदेव वा 'असुइविलीणविगयधिभच्छदरिसणिज्जे'-अशुचि-अपवित्रमस्पृश्यत्वात् , विलीन-जुगुप्सासमुत्पादकत्वात् , विकृत-विकारवचात , बीभत्संद्रष्टुमयोग्यत्वात् , एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा भवेतारूवे सिया'-यादृशः सर्पा| दिकलेवरे गन्धो भवेत् , यादृशं वा सर्पादिकलेवरं गन्धेन भवेत् , एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्ध इति सूत्रकारस्य विकल्पोल्लेखः', 'नो इणढे समडे'-नायमर्थः समर्थः-सङ्गत इत्ययं तु तस्यैव निर्णयः, निर्णीतमेव गन्धस्वरूपमाह-'एत्तो अणिहतराए चेव'-इत:-अहिकडेवरादिगन्धात सकाशादनिष्टतर एव-अभिलाषस्याविषय एव
IFICCARECIPICHAR
॥ १३६॥