________________
'पसाहणघरएसु य'-प्रसाधनं-मण्डनं, मोहणधरएम य-मोहन-निधुवनं, 'सालघरएसु य-साला-शाखाः, अथवाशाला-वृक्षविशेषाः, 'जालघरएसु य'-जालगृह-जालकान्वितं, 'कुसुमघरएसु य-कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, क्वचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति, शङ्कितः-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् कासितःतत्फलाकासावान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः, विचिकित्सितः-जातेऽपीतो मयूरपोतेऽतः, किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान् । किमुक्तं भवति !,-भेदसमापन्नो मतेधाभावं प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलुषसमापनो-मतिमालिन्यमुपगतः, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन परिवर्तयति-तथैव पुनः स्थापनेन 'आसारयति'-ईषत्स्वस्थानत्याजनेन, 'संसारयति'पुनरीषतस्वस्थानात् स्थानान्तरनयनेन चालयति-स्थानान्तरनयनेन स्पन्दयति-किंचिच्चलनेन, घट्टयति-हस्तस्पर्शनेन, क्षोभयति-ईषभूमिमुत्कीर्य तत्प्रवेशेन, 'कण्णमूलंसित्ति-स्वकीयकर्णसमीपे धृत्वा, 'टिहियावेति'-शब्दायमानं करोति, 'पोचडंति-असारं, हीलनीयो गुरुकुलाद्युद्धट्टनतः निन्दनीयः कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मयूरपोषका ये मयूरान् पुष्णन्ति । 'नट्टल्लगं'ति-नाटय, 'विनाये'त्यादौ 'विनायपरिणयमेव जोवणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवं दृश्य, मानेन-विष्कम्भतः उन्मानेन-बाहल्यतः प्रमाणेन चआयामतः परिपूर्णौ पक्षौ 'पेहुणकलावित्ति-मयूराङ्गकलापश्च यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याश्च चन्द्रका यस्य स तथा, वाचनान्तरे विचित्रा:-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रका नीलकण्ठको
ROCHEDCALIFICAA5