________________
हैद्रोण्यादीनि मिनत्ति-द्विधा करोति तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः, लघुभ्यां-क्रियासु दक्षाभ्यां हस्ताभ्यां
संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः, 'तीव्र वैर:-अनुबद्धविरोधः, 'अतिगमनानि'-प्रवेशमार्गान् 'निर्गमनानि'-निस्सरणमार्गान् , 'द्वाराणि'-प्रतोल्यः, 'अपरद्वाराणि'द्वारिकाः, 'छिण्डी:'-छिण्डीका:-वृत्तिच्छिद्ररूपाः, 'खण्डी'-प्राकारच्छिद्ररूपा, नगरनि मनानि-नगरजलनिर्गमक्षा. लान्, 'संवर्तनानि'-मार्गमिलनस्थानानि, 'निवर्तनानि'-मार्गनिर्घटनस्थानानि, 'चूतखलकानि'-द्यूतस्थण्डिलानि, 'पानागाराणि'-मद्यगेहानि, 'वेश्यागाराणि'-वेश्याभवनानि, 'तस्करस्थानानि'-शून्यदेवकुलागारादीनि, 'तस्कर गृहाणि'-तस्करनिवासान, शृङ्गाटकादीनि प्राग व्याख्यातानि, सभा:-जनोपवेशनस्थानानि, प्रपा:-जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात् । 'पणितशाला'-हट्टान् शून्यगृहाणि-प्रतीतानि, 'आभोगयन्'-पश्यन् , 'मार्गयन्'अन्वयधर्मपर्यालोचनतः, 'गवेषयन्'-व्यतिरेकधर्मपर्यालोचनतः, बहुजनस्य, 'छिद्रेषु'-प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु, 'विषमेषु'-तीव्ररोगादिजनितातुरत्वेषु, 'विधुरेषु'-इष्टजनवियोगेषु, 'व्यसनेषु'-राज्याधुपप्लवेषु, तथा'अभ्युदयेषु'-राज्यलक्ष्म्यादिलाभेषु, 'उत्सवेषु'-इन्द्रोत्सवादिषु, 'प्रसवेषु'-पुत्रादिजन्मसु, 'तिथिषु'-मदनत्रयोदश्यादिषु, 'क्षणेषु'-बहुलोकभोजनदानादिरूपेषु, 'यज्ञेषु'-नागादिपूजासु, 'पर्वणीषु'-कौमुदीप्रभृतिषु; अधिकरणभूतासु मत्तः, पीतपद्यतया प्रमत्तश्च-प्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य'-प्रयोजनान्तरोपयुक्तस्य ब्याकुलस्य च नानाविधकार्याक्षेपेण सुखितस्य दु:खितस्य च, विदेशस्थस्य च-देशान्तरस्थस्य, विप्रोषितस्य च-देशान्तरं
SACARRIAGRICA
BOOKSAIRRORNERAL