SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ रवत्कर्णपूराणि तैः परिमण्डितोऽमिरामश्च यः स तथा, कचित्-'उउयकुसुम'त्ति पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि-गण्डतटानि, क्लिन्मानि-आर्द्राकृतानि येन तत्तथा, तच्च तद्गन्धमदवारि च तेन सुरभिजनि. तगन्धः-मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते,दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिता:-नीरसीकृताः तरुवराः श्रीधराः-शोभावन्तो येन परिशोषिता वा 12 तरुवराणां श्रीः-संपद्धरायां-भुवि वा येन, पाठान्तरे-परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र भृङ्गाराणां-पक्षिविशेषाणां रुवतां-वं कुर्वतां भैरवो-भीमो रव:-शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठवणकचवराण्युद्धतानि-उत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं-व्याप्तं नभस्तलं-व्योम 'पडुममाणे'ति-पटुत्वादुपतापकारि यस्मिन् पाठान्तरे-उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं दुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैदोषिता-जातदोषा दृषिता वा भ्रमन्तो विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र; भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रस:-प्रसरणं तेन प्रस्तो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिक यथा भवत्येवं भीमभैरवः-अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्धाबमान:प्रवर्द्धमानो धगधगायमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दप्रबला, पाठान्तरे-शब्दोद्धतश्च यः स तथा, तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन-तद्विनाशकारिणा ज्वालाभिरालोपितः BARSOCIASIRAHA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy