________________
विशेषाव ० कोट्याचार्य
वृत्तौ
।।५९१ ॥
जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काञ्चित्क्लेशक्षयात्केवलमेति शान्तिम् ॥२॥" किं वा दुःखादिक्षयरूपा 'से' अस्य सतोऽवस्था निर्वाणं केवलदर्शनं निरुपमसुख संपन्नत्वं च अयं स्थितपक्षो भविष्यति ॥५४॥|| 'अहं' इत्याद्यक्षरघटना, अथवा किं संसारभाव एव भवेत् कम्मजीवजोगस्स अवियोगात्, सर्वात्मनः कर्मणा खल्ववियोगोऽनादित्वात् येन सहास्यानादिसंयोगस्ततो न मुच्यते अयं, तद्यथा 'खस्स वे' त्याकाशेनेति, तस्मान्न निर्वाणपक्ष एव श्रेयानिति युक्तियुक्तत्वात् ॥ इदं निराकरिष्णुर्भगवानाह - 'पडी' त्यादि स्वशेषं प्राग्वत् ॥ यच्चेत्थं मोक्षाभावं मन्यसे यदुत - 'ज'मित्यादि ॥ 'यत्' यस्मान्नारकतिर्यङ्नरामरभावः संसार उच्यते, तथा नारकादिभिन्नव जीवः कः ?, नैवेत्यर्थः, स्वपर्यायपर्यायरूपत्वात्तस्य, यतश्चैवं ततो मन्यसे 'तन्नाशे' | संसारादिनाशे जीवस्यापि नाशो भवति, न च भवति जीवनाशः तस्मात्पारिशेष्यसिद्ध्या न मोक्ष इति । अत्राप्यभिदध्महे - 'नहीं' त्यादि स्पष्टा ॥५५-५८॥ अपिच- 'कम्मे 'त्यादि । संसारः कर्म्महेतुरतस्तन्नाशेऽस्यापि नाशो न्याय्यः कारणनिवृत्तौ कार्यनिवृत्तेः, वैधुर्यमाह| जीवत्वमकर्मकृतमनादिपारिणामिकभावत्वात्, अतः 'तन्नाशे' संसारनाशे तन्न नमयति । इतश्च - 'न वी 'त्यादि । नासौ जीवो | विनाशधर्मा अनुपलभ्यमानविकारत्वाद् व्योमवत्, यश्च नित्यो न भवति तस्यावश्यं विकार उपलभ्यते, यथा घटस्य कपालानि, तस्मा| नित्यो मोक्षः ||५९-६० ॥ 'काल' मित्यादि ॥ भवेन्मतिर्भवतो यद्यपि मोक्षो न प्रतिक्षणध्वंशी तथाऽपि कालान्तरध्वंशी भविष्यति, कृतकत्वाद् घटवत् । अनैकान्तिकत्वमाह - 'नो' इत्यादि प्राग्वत् ॥ 'अणु' इत्यादि प्राग्वत् ॥ ६१-६२ ।। असिद्धतामाह - 'किं वेत्यादि । किं विवक्षितप्रतियोगिसंयोगमात्रविभागे जीवस्तदवस्थ एव नित्योऽकृतकश्च द्रव्यरूपत्वात्, संयुक्तघटविनाशे आकाशवत् । अपि च'दव्वा' इत्यादि पुव्वद्धं । नित्यो जीवः द्रव्यार्थामूर्त्तत्वादाकाशवत्, आह- ननु दृष्टान्तबलादयं हेतुरिष्टविघातनाद्विरुद्धः, उच्यते, न, अनु
एकादशो वादः निर्वाण सिद्धिः
।।५९१॥