________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५८४ ॥
भयरूपं कर्म, अभूतैवंविधकारणत्वाद्वन्ध्यापुत्रवत्, यथाऽयमुभयरूपो न एवं कर्मापि - अतश्चतुर्थस्तु न ज्यायान्, असिद्धो हेतुरिति चेदुच्यते'कम्म' मित्यादि ॥ कर्म योगनिमित्तं बध्यते, 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, तदिह योगग्रहणमत उपात्तं, | मिथ्यादर्शनादिषु योगाविनाभावात् योगानामेव बन्धहेतुत्वमत उच्यते- 'कम्म' मित्यादि कर्म योगनिमित्तं स चैकस्मिन् समये बन्धकाले शुभो वा भवेद् अशुभो वा, न तूभयरूपः, ततः कर्मापि तदनुरूपं शुभं वाऽशुभं वा, कारणानुरूपत्वात्कार्यस्य, नान्योऽन्यानुवि| स्वभावमिति भावः, तस्मात्सिद्धो हेतुर्नापेक्ष (नः पक्षे ) इत्यर्थः । पुनरपि हेतोरपक्षधर्म तामाह चोदकः- योगानां कर्मकारणभूतानां कार्येण द्रव्येण शुभाशुभरूपेण दृष्टेन योगानामपि शुभाशुभत्वमुभयं सिद्धं ॥ ११-१४।। आह च- 'नणु' इत्यादि ॥ नन्वेकस्मिन्नपि समये मनोवा| क्काययोगाः शुभाशुभा अपि दृश्यन्ते, प्रकर्षाप्रकर्षवैचित्र्यात् सर्वनिकृष्ट सर्वोत्कृष्टयोरन्तराले शुभाशुभत्वं तेषां तेभ्यश्च कर्मापि तथाविधमिति, उच्यते- 'दव्वंमि' द्रव्यात्मके योगे मिश्रभावो भवेत् - शुभाशुभत्वं भवेदेकस्मिन् समये, न तु भावकरणेन तु भावात्मके योगे कर्मकारणे शुभाशुभमिश्रपरिणामो भवेत्, शुभत्वा देवाशुभत्वादेव वा । तस्यैव ज्ञापकमुपचयकारणमाह- 'झाण' मित्यादि ॥ एवं कर्मणो बन्धपरिणामकाले योगानां ध्यानकाले ध्यानोपरमे वा शुभत्वमशुभत्वं वैकरूपमेव, न मिश्रता सिद्धेति कर्मणोऽषि कार्यस्य तद्वदेव न मिश्रता ॥ १५-१६ ॥ पुच्वं इत्यादि, वा अथवा यत्पूर्ववद्धं कर्मैकरूपं यथा मिथ्यादर्शनं तत् परिणामवशाजीवः सम्यग्मिथ्यारूपां मिश्रतां नयेत्, मिथ्यादर्शनं चाशुभं सत् सम्यग्दर्शनं शुभत्वं प्रापयेत्, शुभं वाऽशुभत्वं प्रापयेत्, न तु ग्रहणे कर्मबन्धकाले, तथा चागमः - 'मोतू' | इत्यादि । मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमो भवतीत्युत्सर्गस्यापवादोऽयं, आयुष्कस्योत्तरप्रकृतीनां चतसृणां परस्परं संक्रमो निवार्यते, मोहनीयमूलप्रकृत्य भेदेऽपि दर्शनमोह चारित्रमोहयोः संक्रमो निषिध्यते, शेषाणां प्रकृतीनामुत्तर भेदसंक्रमो भाज्यो, भवत्यपीतिकृत्वा तथा
पुण्यपापतत्पार्थक्य
सिद्धिः
॥५८४॥