SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य: वृत्तौ ॥५८३॥ % मलीमसी भवमानादपि तदनुरूपरसवीर्यविपाकं फलंतजातीयमेव कस्मान्न प्रतीयमानमपि प्रतीयते १, भिन्नप्रतिपक्षादेव, दृष्टान्तोऽपि दृष्यः स्वानुरूपपापकर्मप्रकर्षजनितेति प्रतिपद्यस्व ||५-१०॥ 'तह बज्झे' त्यादि, तथेत्युपपश्यन्तरार्थः, तथा तद् दुःखमन्तरङ्गकेवलपुण्यमात्रजनितं न भवति देहिनां कुतः १, बाह्याहारादिसाधनप्रकर्षाङ्गभावाद् बाह्यकारणान्तरसव्यपेक्षत्वात्, अतो यत्कारणान्तरसव्यपेक्ष तदेकं निर्वर्त्तकं न भवति, यथा निरुपकरणः कुलालः कुम्भनिवृत्तौ । तथा च 'दुःखितदेहे विपरीताहारादि बाह्यसाधनसापेक्षत्वमतस्तस्मिन् पुण्यापकर्षे सिद्धे सति पापकर्मप्रकर्षजनितत्वमप्यनुमीयते इत्थं चैतदिह चिन्तायां, अन्यथा तत् केवलजनितत्वे न दुःखं विपरीतबाह्य साधनबलप्रकर्षमपेक्षेत, अपि त्विष्टाहारापचयमपेक्षेत, अपेक्षते चानिष्टाहारप्रकर्ष, यतश्चैवं तस्मादेतद्विपर्ययत्वाददृष्टपापप्रकर्षो दृष्टोऽनिष्टाहारप्रकर्षश्च दुःखहेतुः ॥ अपि च- 'देहो ' इत्यादि पुबद्धं । दुःखितहस्ति देहः केवलपुण्यापचयमात्रकृतो न भवति, मूर्तिमश्वात्, अत्यन्तपुण्योत्कर्षजनितानुत्तरोपपातिकदेहवत् मनुष्यलोके चक्रवर्त्तिदेहवद्वा, यथाऽनुत्तरदेहो मूर्त्तत्वात् पुण्यापचयमात्रकृतो न, एवं हस्तिदेहोऽपि न पुण्यापचयमात्रकृतः, तस्य पापप्रकर्षजनितत्वादित्यभिप्रायः, यश्च पुण्यापचयमात्रकृत इति कल्पेत न तत्र मूर्त्तिमभ्वं यथा न किञ्चिद्वैधर्म्यदृष्टान्ते धर्मासिद्धिः प्रत्युतेष्यते, तया च कल्पनया भवेदपीति । अपिच - पुण्यापचयमात्रदुःखनिमित्तवादिन् ? 'होज्ज वेत्यादि पादः, यद्यसौ हस्तिदेहः पुण्यापचयजनितः स्यात् ततोऽसौ 'हीनतरः स्यात्' लघुः स्यात्, कारणापचये कार्यापचयदर्शनात्, न चासौ हीनतर इत्यभिप्रायः, तथा यदि च पुण्यापचयस्तत्कारणमिष्यते ततः कथमसावशुभतरो महांश्च ?, नन्वेकस्मात्कारणात् कथं कार्यद्वयं भिन्नस्वभावं ?, एतदुक्तं भवति - अशुभतरत्वं तावदस्तु, महत्वं तु स्वानुरूपपापप्रकर्षं सूचयति, नारकदेहवत्, केवलपुण्यवादनिरासः ॥ केवलपापपक्षमतिदिशन्नाह - 'एव' मित्यादि । 'न ये' त्यादि पच्छद्धं, प्रयोगः- नास्त्यु पुण्यपापतत्पार्थक्यसिद्धिः ||५८३ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy