SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पुण्यपापस्वातंत्र्य विशेषाव० कोट्याचार्य वृत्ती ॥५७५॥ ॥५७५॥ अचलभ्रातः! त्वमसद्दर्शनविप्रलब्धः सन् कर्मचिन्तायां-'मण्णसीत्यादि ।। मन्यसे पुण्यमेवैकः पदार्थोऽस्ति, न प्रतियोगी पापा ख्य इति द्वारोपन्यासमात्रं, तथा केषाश्चिद्दर्शनेन मन्यसे 'पापंति पापमेव, न पुण्यमस्तीति द्वारोपन्यासमात्रम् । तथा केषाश्चिद्द| र्शनेन साधारणं पुण्यपापद्वयमितरेतरानुविद्धं, सुखदुःखानुभाविजीवलोकदर्शनात् , कारणाच्चानुरूपकारणानुमानात् , तथाहि-अस्मिन् संसारे देवाः किल सुखिनस्तेऽपि न सुखिन एव, अपरविभूतीक्षणेानलसन्तापाघ्रातत्वात् , नारका अपि न दुःखिन एव, पञ्चन्द्रियस्वानुभवात् , अयमत्र भावार्थ:-प्रकर्षाप्रकर्षभेदात् सर्वे संसारिणः सुखदुःखानुविद्धस्वभावा इति साधारणपुण्यपापवादद्वारम् । अथ द्वे अपि सुखदुःखे निःकृष्टे सुखासुखपतिनियतफलानुमेयत्वात्स्वतन्त्रे, अथोभयास्तित्ववादद्वारोपन्यासश्चतुर्थः, तथा केषाश्चिद्दर्शनेन वा 'कम्म चिय'त्ति, अचेतनेऽपि घट एककुम्भकारकमृत्तिकाचक्राद्युपकरणेकपाकनिष्पन्नत्वसामान्ये सत्यप्येकः क्षीरमध्वादिभाजनं प्रशस्तवारिपूर्णविकचपद्मपिधानराज्याभिषककलशश्च भवति, कश्चित्पुनरशुचिमद्यादिभाजनं शोकाश्रवारिधारापूर्णखण्डमल्लिपिधानश्मशानकलशश्च भवति, एवं विनाऽपि पुण्यपापाभ्यां शुभाशुभफलप्राप्तिः, एवं चेतनेष्वपि ताभ्यां विनेयं भविष्यत्यत आहुः 'नवा कम्म चिय', किन्तु स्वभावतो भवप्रपञ्चो जायते, तथाहि-"केनाञ्जितानि नयनानि मृगाङ्गनानां ?, को वा करोति विविधाङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसंनिचयं करोति', को वा दधाति विनयं कुलजेषु पुस्सु ? ॥१॥" एवं सर्वदर्शनानि परस्परविरुद्धानि, श्रूयते च 'पुण्यः पुण्येने त्याद्यतः शङ्केति द्वारगाथार्थः । अस्याः पूर्वपक्षद्वारगाथाया व्याख्या ॥८४-८७॥ तत्राद्यद्वारे स्यात् पुण्यं-पुण्यमस्तु, तदेव पापमिति, कथं ?, उच्यते पुण्णुकरिसे सुभया तरतमजोगावगरिसओ हाणी। तस्सेव खए मोक्खो पत्थाहारोवमाणाओ॥२३८८॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy