________________
विशेषान ० कोट्याचार्य वृत्तौ
॥५६८॥
न बध्यते, पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेति वर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाडन्यं, अनेन कर्तृत्वाभावमाह, न एष बाह्यं आत्मभिन्नमहङ्कारादि अभ्यन्तरं स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्वाचेतनत्वात्, ततश्च बन्धमोक्षाभाव इति तन्मा संस्थाः, अन्यविषयत्वादस्थ, तथाहि स एष मुक्तात्मा विगताः छास्थिका गुणा-ज्ञानादयो यस्य स विगुणः, विभुः - विज्ञानात्मना सर्वगतो, न बध्यते, मिथ्यादर्शनादिबन्धकारणाभावात्, संसरति वा मनुष्यादिभवेषु, कर्मबीजाभावात्, नेति वर्त्तते, न मुच्यते मुक्तत्वात्, मोचयतीति वा, तदा खलूपदेशदानविकलत्वात्, नेति वर्त्तते । तथा | सांसारिक सुखनिवृत्त्यर्थमाह-न एष मुक्तात्मा बाह्यं खगादिजनितं अभ्यन्तरं- आभिमानिकं वेद अनुभवात्मना जानाति । एवमेतानि मुक्तात्माभिधायकानि, न पुनर्बन्धाद्यभावाभिधायकानि ॥४०-४२ ॥ इति षष्ठो मंडिकगणधरवादः ॥
'पव्वइए सोउं मोरिओं आगच्छई जिणसगासं । वच्चामि ण वंदामिं वंदित्ता पज्जुवासामि ॥नि. १६९ ॥ भट्ठो य जिणं जा जरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णूसव्वदरिसीणं ॥ नि.१७०॥ किं मण्णे आत्थ देवा ! उयाहु नत्थित्ति ? संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो नि. १७१
एवं - 'ते' इत्यादि मौर्य आगच्छति । 'आभट्ठो' इत्यादि ॥ भगवानेवाह - 'किं मन्ने' इत्यादि ॥ हे आयुष्मन् ! मौर्य ! किं मन्यसे देवाः सन्ति न वेत्ययं तव संशयः, उभयहेतुसद्भावात् तथा च "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छती" त्यादि । तथा 'अपाम सोमं अमृता अभूम, अगमन् ज्योतिरविदाम देवान् किं नूनमस्मान् तृणवदरातिः किमु धूर्तिरमृत मत्यस्येति शेषं
षष्ठेगणधर - वादे देवसिद्धिः
॥५६८ ॥