________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५६५।।
हेतुत्वे समानमात्मना, अमूर्त्तत्वात् ॥ २४ - २६ ॥ द्वितीयमधिकृत्याह - 'रूवी' त्यादि । रूपित्वे तस्य परिस्पन्द हेतोरदृष्टस्य स देह एव स्यात् कर्मविशिष्टः, ततश्च तत्स्पन्दनेऽप्यपरो हेतुर्वाच्यः, स चात्मा यतः प्रतिनियतं नियमितं परिस्पन्दनमचेतनानां न युक्तं, यदि न स्वभावः शरणं याच्यते । 'होउ' इत्यादि । आह-अस्त्वेवं भवस्थस्य क्रिया, कर्माधिष्ठितत्वात्तस्य, कर्मरहितस्य तु सा किंनिमित्ता ?, उच्यते-ननूक्तं तद्गतिपरिणामात् बन्धच्छेदादिभ्यो यथा सिद्धत्वं तथाऽसावप्येकं समयम् ॥ २७-२८ || आह
किं सिद्धालय परओ न गई धम्मत्थिकायविरहाओ । सो गइउवग्गहकरो लोगम्मि जमत्थि नालोए ॥ २३२९ ॥ लोगस्सऽत्थि विवक्खो सुद्धत्तणओ घडस्स अघडोव्व । स घडाइचिय मई न निसेहाओ तयणुरुवो ॥ २३३० ।। तम्हा धम्माधम्मा लोयपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ ? ॥ २३३१ ॥ लोगविभागाभावे परिघायाभावओऽणवत्थाओ । संववहाराभावो संबन्धाभावओ होजा || २३३२|| निरणुग्गहत्तणाओ न गई परओ जलादिव इसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिणामो ॥ २३३३ || अस्थि परिणामकारी लोगस्स पमेयभावओऽवस्सं । नाणंपिव नेयस्सालोगत्थित्ते य सोऽवस्सं ||२३३४|| 'कि'मित्यादि ॥ किं लोकालयात्परतो न गतिर्येनोच्यते त्रिलोकाग्रशिखर इति १, उच्यते- 'धम्मे' त्यादि, स्पष्टम् । स एव नास्तीत्यत आह- 'लोगस्से' त्यादि ॥ लोकस्य विपक्षोऽस्ति, व्युत्पत्तिमच्छुद्ध पदवाच्यत्वात् तद्यथा घटस्य अघटः, यश्वास्य विपक्षः सोऽलोकस्तस्मादस्तीत्य साविति स्यात् न लोकोऽलोक इति स दृष्ट एव घटादिर्भविष्यति, किमिह (दृष्टहान्या अदृष्ट) परिकल्पनयेति, तच्च न, ननिषेधात्, एतदुक्तं भवति-न लोकोऽलोक इत्यनेन निषेध्यस्यैवानुरूपेण भवितव्यं स चाकाशविशेषो जीवादिद्रव्यभाजनं
लोकालो
कसिद्धिः
॥५६५॥