________________
विशेषाव ० कोट्याचार्य वृत्त
॥५६०॥
मसि हि सव्वष्णू ? सव्वेसिं सव्वसंसयच्छेया । दिद्वंताभावम्मिवि पुच्छउ जो संसओ जस्स ॥ २३११॥ भव्वावि न सिज्झिस्संति केइ कालेण जइवि सव्वेण । नणु तेऽवि अभव्वच्चिय किं वा भव्वत्तणं तेसिं १ । २३१२॥ rous भव्वो जोग्गो न य जोगत्तेण सिज्झई सव्वो । जह जोगम्मिवि दलिए सव्वत्थ न कीरए पडिमा ॥ जह वा स एव पासाणकणगजोगो विओगजोग्गोऽवि । न वि जुज्जइ सव्वोचिय स विजुज्जइ जस्स संपत्ती ॥ किं पुणजा संपत्ती सा जोग्गस्सेव न उ अजोग्गस्स । तह जो मोक्खो नियमा सो भव्वाणं न इयरेसिं ॥ 'तो कि 'मित्यादि ॥ ततः किममुमात्मकर्मसंयोगं जीवनभसोरिवानादिमनिबन्धनं चेति प्रतिपद्यामहे, अथ काञ्चनोपलयोरिवानादि सनिधनश्चेति जीवकर्मणोः संयोग इति, उच्यतेऽत्र विशेषः, द्विविधोऽपि न विरुद्धः, स्वभावसंसिद्धसच्चापेक्षयेतिवाक्यशेषः । ९९। तत्र - 'पढ' इत्यादि || 'प्रथमः' अनादिरनिधनः अभव्यानामेव भवति, द्वितीयो भव्यानाम् । आह-कोऽयं भेदो जीवत्वसामान्यात् १ पर एवाहहोउ वेत्यादि स्पष्टा, उच्यते- 'दव्वादी' त्यादि । द्रव्यज्ञेयप्रमेयत्वादिसामान्येऽपि जीवाजीवत्ववदयमपि ।।२२००-३।। तदेवं सिद्धे आह'एवंपी' त्यादि ॥ नित्यो भव्यभावः स्वभावजातेः स्वाभाविकत्वाद्भव्यत्वस्येत्यर्थः जीवत्ववत्, ततः किमित्यत आह-भव्यभावे च | जीवत्व इव नित्ये सति नास्ति निर्वाणं भव्यस्य, 'भव्यजीवो न सिद्ध्यती 'ति वचनात् उच्यते - ' जहे 'त्यादि ॥ यथा हि घटप्रागभावः प्रागसत्ता 'अणादिसन्भावो' त्ति अनादिस्वभावजातीयोऽपि मृत्पिण्डकुलालादिव्यापारसंनिधौ सनिधनो व्युपरमन् दृश्यते, एवं किमत आह एवं यदि भव्यत्वस्य मोक्षप्राप्तावभावः स्यात् ज्ञानादिक्रियया ततः को दोषः ? || 'अणु' इत्यादि ॥ स्यान्मतिः- नायमुदाहरणं अभावत्वात् खरविषाणवदिति, उच्यते - असिद्धो हेतुः यस्माद् भाव एव प्रागभावः, केवलं कुम्भानुत्पत्तिमात्रविशिष्टः, अन्यथाऽनादि
भव्याभव्य
भेदौ
॥५६०॥