________________
वृत्ती
विशेषाव०६
यापः सच 'इह भवें' अमुष्मिन् भवे स 'तादृशः' तादृग्रूपः परभवेऽपि एवं किं मन्यसे-एवं किं संशेषे ?, विरुद्धवेदद्वयश्रवकोव्याचार्य णादिति चेद्, यत उक्तं-'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादि, तथा 'पुरुषः पुरुषत्वमश्नुते, पशुः पशुत्व' मित्यादि, निरासः
भगवानाह-किमित्यत आह-यतो वेदपदानामर्थ नैव जानासि, सम्यगर्थ एवापरमार्थपरिकल्पनात, कोऽमीषामर्थ इत्याह-तेषामयम-15
र्थः-पुरुषः खल्विह-जन्मनि मृदुमार्दवसत्यशौचसंपन्नः स मनुष्यनामगोत्रे कर्मणी बवा मृतः पुरुषत्वं प्राप्नोति, एवं पश्चादयोऽपि, न ॥५५०॥
॥५५०॥ तु नियमः॥२२४९-५१॥ तथा युक्तितोऽपि-'कारणे'त्यादि । यद्यत्प्रभवं तत्तदनुरूपं, तद्यथा-वाङ्कुरः स्वबीजानुरूपः, इहभवप्रभवं | चान्यजन्मेत्यत एतद्रूपं, एतच्चैवं न, अनेकान्तात्, तथाहि-'जातीत्यादि।।शृङ्गाच्छरो जायते इति कात्र कारणानुरूपता ?, तस्मादेव च सर्षपानुलिप्तात् 'भूतृणका' सस्यसङ्घातः, तथा गोलोमाविलोमभ्यो दूर्वा ॥'इती'त्यादि एवं 'इत्याद्येवं वृक्षायुर्वेदे तथा योनिप्राभृते | चासदृशेभ्योजन्म दृश्यते सिंहादीनामतो नायमेकान्तः-पुरुषः पुरुषत्वमश्नुते इति, कारणानुरूपं कार्यमितिकृत्वा, इदानीमस्यामेव वाचोयुक्तौ समर्थवादितया परं निराकुर्वन्नाह-'अहवेत्यादि । अथवा यत एव बीजानुरूपं कार्य मतं भवतोऽत एव गृहाण जीवममुतः पुरुषभवाद्भवान्तरे तिर्यङ्नरनारकामरान्तरे चित्रपरिणामं भिन्नजातीयं, किं कारणं?, चित्रत्वादेतोः, ततश्च कारणसदृशं कार्यमिति मन्यस्त्र, ४ पुरुषः पुरुष एवेत्येवं मा मंस्थाः । कोऽभिप्रायो भगवतः ? इत्याह-'जेणेत्यादि । येन भवोऽङ्कुर इव भवाकुरस्तस्य बीजं कर्म
वर्तते, तच्च यतश्चित्रपरिणाम, शेषं स्पष्टं, तस्मान्मन्यस्वैवं, तथाहि-'जईत्यादि ॥ यदि मिथ्यादर्शनादिकारणवैचित्र्यात् कर्मविचि४त्रता प्रतिपन्ना ततः कार्यस्य सुखादेः (वैचित्र्यं) प्रतीहि, प्रयोगः-'चित्त'मित्यादि ॥ चित्रो भव इति प्रतिज्ञा, तद्धेतुवैचित्र्यादिति है हेतुः, कृषिकर्मान्तःसमुद्रप्रतरणादिफलवत् ॥५४-५८॥ तथा-'चित्ते'त्यादि ॥ अनवस्थिता कर्मपरिणतिः पुद्गलपरिणामरूपत्वादभ्रादि
SUNSAR