SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥ ९७९ ॥ | द्यत इत्यभिप्रायः, एवं तावत्क्षायोपशमिकभावमङ्गीकृत्य प्राधान्यमुदितं, अथ क्षायिकमपि भात्रमङ्गीकृत्य ज्ञानस्यैव प्राधान्यं यस्मादहतोऽपि दीक्षावत उत्कृष्टतपश्चरणवतः सकललोकालोकाष भासि केवलज्ञानोदयमन्तरेण मुक्तिप्राप्यभावो दृष्टः उक्तञ्च - "दीक्षामभ्युपगतस्याप्यर्हतः केवलादृते । यस्मान्न मोक्षसंप्राप्तिस्तस्माज्ज्ञानं विशिष्यते || १ ||" तस्माज्ज्ञानमेव प्रधानमिति स्थितं, 'जो उबएसो सो णओ णामं'ति इत्येवमुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च चतुर्विधे सामायिके आद्यमेव सामायिकद्वयमिच्छति, नोत्तरं, तस्य कार्यत्वेन गुणीभूतत्वात् । उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तदर्शनं चेदं क्रियैव प्रधान मैहिकामुष्मिक फलप्राप्तिकारणं युक्तियुक्तत्वात् तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायम्मी' त्यादि ॥ ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव प्रयत्नादिलक्षणक्रियाविरहेण ज्ञानवतोऽप्यभिलषितार्थ संप्राप्यदर्शनात्, तथा चाहुरेके - "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, | न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिकफलमात्यर्थिनाऽपि क्रियैव कर्त्तव्या मौनीन्द्रवचनप्रामाण्यात्, उक्तञ्च - "चेतियकुलगण" इत्यादि, इतचैतदेवमभ्युपेयं, तीर्थकरगणधरैः क्रियाविकलानां ज्ञानवैफल्योक्तेः तथा चागमः - 'सुबहंपी' त्यादि, दृशिक्रियाविकलत्वात्तस्य, एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्य, क्षायिकमप्यङ्गीकृत्य चारित्रमेव विशिष्यते, यस्मादईतः समुत्पन्न केवलस्यापि न तावदपवर्गप्राप्तिः संजायते यावदखिलकर्मेन्धनानलभूतां ह्रस्वपञ्चाक्षरो गिरणमात्र कालावस्थायिनीं सर्वसंवररूपां चारित्रक्रियां नाप्नोति, तस्मात्क्रियैव प्रधानेति स्थितं, 'जो उवएसो सो णओ णामंति, इति य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः अयं च चतुर्विधे सामायिके चरममेव द्वयमिच्छति, नेतरत् नयविचारः ।।९७९ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy