________________
नयविचारः
विशेषाव० कोट्याचार्य
CROSOCIEN
वृत्ती
॥९७८॥
॥९७८॥
इयपरिसमापियमियं सामाइयमत्थओ समासेण । वित्थरओ केवलिणो पुव्वविओ वा पहासंति ॥४३४५॥ सव्वाणुओगमूलं भासं सामाइअस्स सोऊण । होइ परिकम्मिअमई जोग्गो सेसाणुओगस्स ॥४३४६।।
॥समाप्तमिदं विशेषावश्यक कृतिर्जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम् ॥ _ 'नाणा इत्यादि स्पष्टा । इयं च सम्बन्धगाथा, यत आह नियुक्तिकारः-'णात'मित्यादि । तत्र 'णायंमित्ति ज्ञाते-सम्यक् परिच्छिन्ने 'गेण्हियब्वे'त्ति ग्रहीतव्ये-उपादेये 'अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोग्रहीतव्याग्रहीतव्ययो. |तित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थो भिन्नक्रमश्च, तेनैतदुक्त भवति-ज्ञात एव सति ग्रहीतव्येऽग्रही| तव्ये उभये उपेक्षणीये वा ज्ञात एव, नाज्ञाते, 'अत्थंमित्ति अर्यत इत्यर्थः, स च द्विविधो भवति-ऐहिक आमुष्मिकश्चेति, तौहिकोधा-ग्राह्योऽग्राह्य उपेक्षणीयश्च, तत्र ग्राह्यः-स्रक्चन्दनागरुकर्पूरधूपवासाङ्गनावस्त्रताम्बूलादिरिष्टत्वात् , तथा अग्राह्यः क्षारविषशस्त्रकण्टकानिष्टजलानलादिमनोऽननुकूलत्वात् , तथोपेक्षणीयः भूतृणपांशुशर्करादिर्माध्यस्थ्यहेतुत्वात् , एवमामुष्मिकोऽपि त्रेधा, तत्र ग्राह्यः सम्यग्दर्शनचारित्रादिः, अग्राह्यो मिथ्यात्वादिः, उपेक्षणीयो विषयादिरभ्युदयादिर्वा, तस्मिन्नर्थे किमत आह-'जइयव्वमेव हि' | ऐहिकामुष्किफलप्राप्यर्थिना सत्वेन यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतत् सम्यग्ज्ञाते प्रवर्त्तमानस्य फला विसंवाददर्शनात् , तथा चाहुरेके-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्मवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यार्थिनाऽपि ज्ञात एव यतितव्यं, तथाऽऽगमादेशाद्, उक्तञ्च-"पढमं नाणं तओ दये"ति, इतश्चैतदेवं तीर्थकरगणधरैरगीतार्थानां केवलविहारप्रतिषेधाद् , यथोक्तं-'गीयत्थो य'इत्यादि, न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिप.
645CRECORDSUCCES
C 454