________________
E
विशेषाव
शून्यतानिरास:
॥५३९॥
॥५३९॥
एवं सर्वस्य सतो वस्तुनः घटताप्रसङ्गः, कः?, नन्वेतावन्मानं बमो-घटोऽस्ति, यदुक्तं घटस्य वा सर्वास्तित्वमिति, अनिष्टं चैतदित्यत्राह, कथं च घटोऽस्तीत्युक्त स्थान एव तस्मिन् सर्वास्तित्वावरोधेन सर्वात्मकताऽस्योच्यते, ततश्च घटे सर्वसङ्कर इति ।।०१-०२ भावार्थमाह'अत्थी"त्यादि ॥ तेन अस्तीत्याकारिते घटो वा गम्पते अघटो वा-पटादिः, विशेषसत्तासंक्रान्तत्वाद् , 'घटो उ अत्थेव'त्ति | घट इति चोक्तेऽस्त्येव गम्यते, न शून्यता, उदाहरणमाह-यथा द्रुमश्चतोऽचूतो वा, चूतस्तु दुम एवेति, यच्चोक्तं यच्चोत्पादि तत्रोत्स|न्ना कथा' इत्यतो यज्जातं जायत इत्यायन प्रष्टव्यो देवानांप्रियः। 'किंत'मित्यादि ॥ जाताजातोभयमपि सद्यदजातं तक जातं भव
चेतस्यारूढमिति, एवं यत्र लक्ष्यभूते मतिमाधाय एते विकल्पाः प्रवय॑न्ते भवता ननु जातं सर्वथा चाजातमिति ववचनविरोधः, अथ विह्वलीभूतत्वान्मन्यसे-जातमपि न जातं ततस्तर्हि निर्विषया अमी विकल्पाः, अथवा किं न खपुष्पेऽयं विचारः १, किं वा न समता? किंवा न विपर्ययः ? । अथ परमत्योच्यते, न स्वमत्या, असंभवाद् अभ्युपगमे शून्यनयच्यावनात् , अपिच-'जदीत्यादि । यदि | सर्वथा एतावतां विकल्पानां केनापि न जातं घटवस्तु ततः किमिति मृत्पिण्डव्ययानन्तरं तदुपलभ्भः ? पूर्व वा मृत्पिण्डादौ किमनुपलम्भोऽभूत् ?, पुनश्च किं कालान्तरभग्नस्यानुपलम्भो भविष्यति॥०३-०५।। निम्ने प्राप्तमुपालम्भयन्नाह-'जहे'त्यादि। 'जहा सुन्नवयणं' ति यथेह भवदीयं शून्यवचनं जातं न जातं नाजातं न जाताजातं न जायमानं, तथा भावा अपीत्यशून्यं जगत् । अथ जातमपि सदिदं शून्यताऽभिधायकं वचो न जातं, उपलक्षणं चेदमितरेषामपि, मा भूच्छून्यतेत्यत उच्यते-प्रभाषिता शून्यता केन ?, न केन| चिदिति, सर्वस्याशून्यता तस्मात्-'जायती'त्यादि ।। जायते जातं घटवस्तु घटमृदो, घटो मृदूपतया जातो जायत इत्यर्थः, अजातं स एव तस्या आकारतः, जाताजातं स एव मृत्तया आकारतश्च, जायमानं क्रियाक्षणे वर्तमाने, किञ्चिच्च सर्वथा न जायते, पूर्वकृतं
ROCRACAMACHAR
NARIES