________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९४९ ॥
स भदन्तो यः किंविशिष्ट इत्याह-यः कल्याणः सुखश्च तत्र कल्याणपदमाह- कल्यं किल 'आरोग्यं' नीरुक्त्वम् । उच्यते- 'त'मित्यादि । तच्चारोग्यं पारमार्थिकं निर्वाणं, तमाणयतीति तो कल्लाणो, स चायरिओ संबन्धः, वाशब्दोऽथवार्थः, अथवा कारणे कार्योपचारात् ज्ञानदर्शनचारित्रत्रयानयनात् कल्याण इत्यर्थः । अपिच- 'तस्साहण' इत्यादि पच्छद्धं, अस्य व्याख्या - अथवेति पश्चानुपूर्व्या अणरणधातुसमूहः सद्दत्थो - भणनार्थः, ततश्च 'तत्साधनं' कल्यसाधनं अणतीति कल्याणः, कल्यभणक इत्यर्थः, 'अथवा गच्चत्थो' ति अथवा गत्यर्थोऽणशब्दस्ततश्च कल्यमणति - गमयतीति कल्याणः । तथा च पश्चानुपूर्व्या भावयन्नाह - 'कल' मित्यादि पूर्वाद्धं गत्यर्थधातुविषयत्वात् गतार्थम् । यथा कल्यं भणति भाणयति वा जं । 'अह' इत्यादि ॥ अहवा कल्यशब्दो व्युत्पाद्यते, तत्र 'कल' त्ति द्वयर्थो धातुः शब्दार्थः संख्यानार्थश्व, कल शब्दसंख्यानयोरिति धातुपाठात् तस्य कल्यमिति रूपं भवति । पश्चार्द्धेन शब्दमाह - ततश्च 'यत्' यस्माच्छब्दं अणति संख्यानं वा - गणितादि तेनैव कल्याणः । 'सुपेत्यादि ॥ 'सुह' इत्यादि ॥ सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि, ततश्च 'सुखोऽभिमतः' सुखोऽभिप्रेतः शुद्धेन्द्रियो, वश्येन्द्रिय इत्यर्थः, विपर्ययेण तु विपर्ययः, अथवा सुखहेतुत्वात्सुख इति, आह च - ' अहवा' इत्यादि, सुखं संसारातीतं तथ्यं, सांसारिकं तूपचारतः, तस्योभयस्यापि सुखस्य गुरुः साधनमिति सुखमसौ, सुखोऽसावित्यर्थः किमिवेत्याह- 'अन्ने' आहारे प्राणसज्ञावत् प्राणहेतुत्वाद्, यथा प्राणा ओदनः, एवमसावपि सुखहेतुत्वात्सुख इति भावना । अन्यथाऽपि सुखशब्दार्थमाह- 'जं चेत्यादि । यस्माद्वा सुखमिति कोऽर्थोऽक्षरद्वयस्य?, सुष्ठु इतं स्वितं खेभ्यः - इन्द्रियेभ्यो यदुत्पन्नं सुहं पाययसेलीए, तं च अणुग्गहरूवं अभयादि, आदिशब्दाच्छ्रोत्रसुखादि गृह्यते, तस्यैवंविधस्य सुखस्य प्रदाता गुरुः सुहं भण्णइ, किं कारणमित्याह - सुख भक्तिभावात् सर्वे जीवा न हन्तव्या इति वचनाद् अयं भदन्तः । 'अहवा' इत्यादि । अथवा
भंतेशब्दार्थः
॥ ९४९ ॥