SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य | वृत्तौ ॥९४७॥ परिणामोऽनन्यः । पश्चार्द्धव्याचिख्यासयाऽऽह- 'तेणे' त्यादि ॥ 'तेण' यस्मात् 'आता' आत्मा तथा सामायिकं चशब्दात्करणं च एतानि त्रीण्यपि वस्तूनि न भिन्नानि न युतायुतानि, विवक्षयेति शेषः । 'नग्वि'त्यादि स्पष्टम् || 'जती' त्यादि गतार्थम् । अपिच'सव्वं चिये' त्यादि गतार्था । अपिच - 'एग 'मित्यादि पुव्वद्धं स्पष्टं तद्यथा - धनुर्विध्यति धनुषा विध्यति धनुषो विध्यति धनुषि | विध्यति, तेन कारणेनादोषोऽयं यदेकं नाना स्यात्, विवक्षया च कारकप्रवृत्तेः । तथा च - 'कुंभोऽवी त्यादि ॥ कुम्भोऽपि घटोsपि | सृज्यमानः - उत्पाद्यमानः कर्माभिधीयते, निर्वर्त्यत्वात्, तथा कर्त्ता स एवत्ति स एव कुम्भः कर्त्ता भवति, तेनात्मना स्वयं भवने स्वतन्त्रत्वात्, तथा 'करणं चत्ति स एव करणमिति व्यपदिश्यते, पृथुबुध्नोदरादिनिष्पादने साधकतमत्वात् एवं 'नाणे' त्यादि स्पष्टम् । 'जह वा' इत्यादि । यथा वा श्रुतज्ञानादनन्यो ज्ञानी चतुर्दशपूर्वरादिर्निजोपयोगकाले एकोऽपि त्रिखभावो भवति, तथा ह्यहमात्मेति कर्तृत्वं, तस्यात्मा ज्ञायमानत्वेन विषयत्वात्तत्कर्म, श्रुतज्ञानं करणं, एवं सामायिकं करोमि त्रिस्वभाव इति, करणं व्याख्यातम् । दारं । भदंत इति सूत्रस्पर्शनं, तत्राह भदि कल्लाणसुहत्थो घाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो सुहो य कल्लं किलारुग्गं ॥ ४१८२ ॥ तं तच निव्वाणं कारणकज्जोवयारओ वावि । तस्साहणमणसद्दो सद्दत्थो अहव गच्चत्थो ||४१८३॥ कलमणइत्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणावेह व जं तो कल्लाणो स चायरिओ ॥ ४१८४॥ अहवा कलसद्दत्थो संखाणत्थो य तस्स कल्लेति । सद्दं संखाणं वा जमणइ तेणं च कल्लाणो ॥४१८५ ॥ सुपसंसत्थो वाणिंदियाणि सुर्द्धिदिओ सुहोऽभिमओ । वस्सिदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥ भंतेशब्दार्थः ॥९४७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy