________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥ ९४३ ॥
तद्यथा - उद्देसो वायणा समुद्देसो अणुन्ना इति, चोदक आह- 'ननु' इत्यादि ॥ ननु पूर्वमनेकधा करणं भणितमिहैव तत इह-अस्यां गाथायां किं पुनर्ग्रहणं करणस्य १, उच्यते- तत्पूर्वगृहीतस्य सामायिकस्य करणमुक्तं, इदं तु चतुर्विधं करणं शिष्याचार्ययोर्दानग्रहण कालविषयमिति विशेषः । विशेषान्तरमाह - 'पुच्च' मित्यादि । अथवा पूर्वमविशेषितं करणमुक्तं, शिष्याचार्यसंबन्धानानाश्रयणात्, इह तु गुरुशिष्यक्रियाविशेषात्, न पौनरुक्त्यमिति शेषः, अथवाऽयमेवोद्देश करणस्यावसरः, यद्येवं कथं तत्रोक्तमिति चेदुच्यते - अनेकान्तार्थं तु व्यत्यासः, तथाहि - नायं नियमोऽन्यत्र नियतमन्यत्र नैवोच्यत इति । दारं । विचित्रा च सूत्रकृतिरिति । कथमित्येतदाह - 'लभती' त्यादि स्पष्टा, शेषाणि त्रीणि सामायिकानि । 'नण्वि' त्यादि चोद्यं - पूर्वमुपक्रमतेदमुक्त १ पुनश्चोपोद्घाते२, तत इह तृतीये स्थाने कथं लभ्यत इति केयं पृच्छा ?, उच्यते- 'भणिते' त्यादि ॥ इहोपक्रमे खयोवसमयो भणिते उवाघाते स एव कथं लभइत्ति भणितं, इह तु स एव केषां कर्मणामिति तृतीयमभिधानीयम् । एवं तावदधिकृतगाथा व्याख्याता, तद्वयाख्यानात्सूत्रचालनाप्रसिद्धिः कृतेति भावार्थः । अथेदानीमेतस्यामेव कृताकृतादिद्वारगाथायां केन कृतमिति द्वितीयद्वारे येयं तृतीया, मा भूत् सन्देहः स्यात् किमियं कर्तृलक्षणा उत करणलक्षणा 'कर्तृकरणयोस्तृतीये 'ति वचनाद् अतो नेयं करणलक्षणा, अपि तु कर्तृलक्षणा, एतस्यार्थस्य प्रकाशनार्थं प्रश्रोत्तरगर्भमिदमारभ्यते, एतदुक्तं भवति - करोमीत्यत्र कर्तृकरणव्यवहारं घट इवापश्यन्नाह -
को कारओ करतो किं कम्मं १ जं तु कीरए तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते १ ॥ ४१६३ ॥ को कारओत्ति भणिए होइ करेंतोति भण्णए गुरुणा । किं कम्मंति य भणिए भण्णइ जं कीरए तेणं ॥ ४१६४ ॥ hor कयंतिय कत्ता नणु भणिओ तत्थ का पुणो पुच्छा । तव्विवरणं चिय इमं केणंति व होल मा करणं । । ४१६५ । ।
कर्तृक्रियाकारकाः
॥ ९४३ ॥