________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९३६॥
'कयाकय' मित्यादि ॥ व्याख्या- 'कि' मित्यादि ॥ किमिति प्रश्नार्थः, तद् यदेतत्सामायिकं तत्किं कृतं क्रियते उत अकृतमिति द्वयीगतिः १, किश्वातो, भण्यते - सर्वथाऽपि दोषः, तथाहि कतमिहण कीरए, सद्भावओ, कृतत्वादित्यर्थः, चिरकृत घटवत् । अपिच कृतमपि कारयतः 'निच्चे' त्यादि ॥ नित्यं क्रियाप्रसङ्गोऽसौ स्याद् यदि कृतं क्रियते, अत एवाह-क्रियावैफल्यं मुहुर्मुहुस्तत्करणात्, अथच कृतं कारयतोऽनिष्ठा ॥ अपि च-नित्ये वस्तुन्याश्रीयमाणे सतीदमकृतमितिव्यपदेशाभावः स्यात्, तथेदं कृतं इदं क्रियमाणमित्यस्याप्यभावः, न चेदं, लोकादिप्रसिद्धत्वात् । द्वितीयमधिकृत्योच्यते- 'अकय मित्यादि गतार्था । क्रियमाणं तर्हि क्रियत इति चेत्तत्राप्युच्यते 'सद' इत्यादि ॥ सव्वंण कज्ज माणंपि कीरइ, सदसदुभयदोषात् समुच्चयदोषप्रसङ्गात् । उपसंहरन्नाह - इति सर्वथा विकल्पत्रयेण न क्रियते सामायिकं यतो तः कुतः करणं?, येनोच्यते - करोमीत्यादि, अत्रोच्यते - इदं विकल्पत्रयवचनं 'किं कृतं क्रियत' इत्यादि तुल्य एव दोष इति । आह- 'नणु' इत्यादि पुव्वद्धं गतार्थ, तस्मात् 'पडी' त्यादि स्पष्टम् । 'अहे 'त्यादि । अह'कतं ण कतं अकयं ण कयं शेषं स्पष्टम् । सिद्धान्तस्थितिमाह - 'अकय' मित्यादि पादत्रयं स्पष्टं, तस्मात्कृताकृतं, अत उच्यते- ' कताकतं' ति । अपि च- 'कीरईत्यादि स्पष्टा ॥ उदा| हरणम् -'रूवी' त्यादि गतार्था । चतुर्थपादोदाहरणम् - 'पुव्व' इत्यादि ॥ पूर्वकृतो घटतया न क्रियते, एवं सर्वथा न क्रियते कृतः, तथा परपर्यायैरुभयैश्च पूर्वकृतो न क्रियते, सर्वथा न क्रियत इत्याह- 'कअंतो येत्यादि स्पष्टं, अतोऽयं न सर्वथैव क्रियत इति, | एवं वा सर्व न क्रियत इत्याह- 'वोमादी' त्यादि गतार्था । 'उप्पा' इत्यादि || सामायिकमप्युत्पादविगमस्थितिखभावमिति कृताकृतं ।। अत्राह - 'दव्व' मित्यादि । द्रव्यं युज्येत उत्पादादिस्वभावं, कुत इत्याह- अणत्थंतरपज्जायंतरविसेसणाहिन्ति - अनर्थान्तरभूतप्रभूतपर्यायविशेषणाद्, यस्मात्तस्थौ साधुत्पद्यते चेत्यर्थः, न तु सामायिकमुत्पादविगमस्थितिस्वभावं युक्तं, गुणत्वात्तस्य । 'सो'
भावकरणे कृताकृतादि विचार:
॥९३६॥