________________
*
विशेषाव. कोट्याचार्य
वृत्ती
॥९३३॥
करणं द्विविकल्पं-लौकिकं लोकोत्तरं चेति । 'बर्द्ध' इत्यादि ॥ पुणो एक्वेकं लोइयलोउत्तरसुयभावकरणं दुविहं, कथमित्याह-बद्ध
भावकरणं अबद्धं च, कथमित्याह-शास्त्रोपदेशमेदाद, गद्यपद्यबन्धनाद् बद्धमिति भावना, तथा 'असत्थोवएसभेदाओं' मुक्तकण्ठश्रवणादबद्धमित्यर्थः । एकेक' मित्यादि , पुण एकेकं बद्धं अबद्धं च दुधा, सद्दकरणं निसीहकरणं च, तत्र शब्दबद्धलौकिकभावश्रुतकरणं | प्रकाशपाठं प्रकाशोपदेशं च, इतरत्तु विपर्ययः । तथा चाह-'उत्ती' त्यादि गतार्था प्रायः, एवं सर्वत्र भावना ।। आह-लोके लोकोत्तरे
IA॥९३३॥ च मुक्तकण्ठं श्रुतभावकरणमस्तीति का प्रत्ययः १, इत्याह-'लोए' इत्यादि स्पष्टार्था, श्रुतं चैतदिति भावनीयम् । 'भाव' इत्यादि।। | आह-भावकरणाधिकारे षष्ठे द्वारे प्रस्तुते किमिह श्रुतभावकरणे शब्दादिविषयेण द्रव्यकरणेन ? , अनधिकृतत्वात् द्रव्यस्य, दुव्यं है शब्दो, भण्यते-'तत्रापि शब्दकरणे भवच्चोद्यालम्बने 'भावो विवक्षितो' भाव एवाभिप्रेतः, किंविशिष्ट इत्याह-'तद्विशिष्ट शब्दविशिष्टः, शब्दस्य यः कार्यः कारणं चेति न दोषः । अथ द्वितीयं भेदमाह-'नो' इत्यादि ॥ नोश्रुतकरणमिति द्वेधा-गुण-18 करणं' गुणानां कृतिः, तथा युञ्जनाकरणं युज्यन्त इति योगा:-मनोवा कायादयस्तेषां कृतियुञ्जनाकरणं, अस्य द्वयस्य क्रमेण ते व्याख्या-'गुणकरणं तपःसंयमनिष्पादन मूलोत्तरगुणनिष्पत्तिर्वा गुणकरणम् । द्वारम् । युञ्जनाकरणमाह-'मणे त्यादि । मनः क्रिया चतुर्विधा-सत्यासत्योभयानुभयभेदात् , एवं भाषाक्रियापीत्यष्टौ, कायक्रिया सप्तधा-ओरालियसरीरकायप्पओगे एवं ओरालियमीस २ वेउब्धिय ३ वेउब्बियमीस ४ आहारक ५ आहारकमीसे ६ कम्मणकायप्पओगे यत्ति ७, पञ्चदश, एवं तावत्पौर्वापर्यंणोक्ते पृच्छति-इदं सामाइयकरणं नामादीनां कतमत्करणं स्यादिति, अत्रोच्यते-सव्वपी'त्यादि ।सर्वमपीति चतुर्विधं सामायिक 'यथायोगं यथासंभवं 'ज्ञेयं बोद्धव्यं द्रव्यादिषु, द्रव्यादेर्भावस्यानर्थान्तरत्वात्, भावकरणं विदं सामायिकं, विशेषेण भावरूपत्वात् ।
CONTROCRECRPANA