________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५३६॥
क
न भणामिति वचनात्, अत्रापि प्राप्तापराधमुपालम्भयन्नाह - तव स्वमतिः परमतिरिति विशेषः, कुतो १, ननु घोटारूढस्य विस्मृतो घोटः । अपिच उक्तं 'समयाविवज्जओवे'त्यादि वार्यताम् । अपिच- आपेक्षिकवस्तुसच्चवादिन् ! 'जुगव' मित्यादि ॥ 'ते' तव | प्रदेशिनी मध्यमयोस्तदाकारप्रतिभासः युगपद्वा भवेत् क्रमेण वा ?, यदि युगपत् काऽपेक्षा ? येन ज्ञापकमुन्नीयते न दीर्घेत्यादि, तस्मात्स्वतोऽपि सिद्धिरिति भावः । अथ क्रमेण ततः पूर्वे दूस्वे तत्प्रथमतया गृह्यमाणे सत्युत्तरे काsपेक्षा 2, ननु स्वरूपेणैव गृह्यते न परावधिकं तत्सत्त्वमिति । आदी' त्यादि । यच्चेह बालस्य - तदहर्जातस्य शिशोः आदौ -नयनकपाटोद्घाटन समनन्तरमेव स्निग्धकदलीदलयोगाद्विज्ञानं प्रादुरस्ति तस्यान्यत्र काऽपेक्षा ?, न काचित्, तस्याद्यत्वात्, अतो विषयस्याङ्गुल्यादेर्नापेक्षिकमेव रूपं, न हि शुक्लं प्रतीत्य सिद्धं नीलमिति, न शुक्लवशेनेतरद् विज्ञाने स्वात्मानमर्पयति, क्रमेणेत्यादिना, अथवा तुल्ययोर्द्रव्ययो दीर्घतया गृह्यमाणयोः का परस्परमपेक्षा ?, न काचित्, तुल्ययोर्ग्रहणात्, लोचनद्वय इव, तथाहि - लोचनद्वये तुल्यग्रहणात् न दीर्घ स्वव्यपेक्षाद्वारेण तथा विज्ञानमुपजायते ॥ 'किं हस्साओ' इत्यादि ॥ यदि च सर्वस्यासचं ततः किमिति ह्रस्वात् प्रदेशिनीद्रव्याद्दीर्घे मध्यमाद्रव्ये | तदभिधान प्रतिभासव्यवहारः प्रवर्त्यते भवता ?, ननु दीर्घादेव दीर्घे किं न प्रवर्त्त्यते १ तयोरसच्चाविशेषात् । एवं किं दीहाओ हस्सो हस्साओ चैव किं न हस्सम्मी त्येवमपि द्रष्टव्यं तथा किमिति वा न खपुष्पाद्दीर्घे तदभिधानादि क्रियते, लघुनि वा, तथा यदि च सर्वस्यासच्च ततः किमिति न खपुष्पात् खपुष्पे १, किमिति न शुकशुकातः शुकशुकायां तदभिधानादि क्रियते, अकृते च दीर्घा - दीर्घे स्वमाहात्म्यसिद्धे, तस्मान्न शून्यं जगदिति परमार्थः ॥ 'किं वा' इत्यादि ॥ 'वा' अथवा सर्वस्यासच्चेऽपेक्षयाऽपि किं १, शून्यताप्रत्यनीकत्वाद् घटवत्, अतः किमिति साध्यते ह्रस्वं प्रतीत्य दीर्घमित्यादि, भवेन्मतिः - भवतः स्वभाव एष यदुतासच्वेऽप्यपेक्षाव्यवहारो
शून्यतानि
रासः
| ॥५३६॥