________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९२७॥
न्धित्वेनासौ व्यपदेश्यः इह शरीररहित्वात् भवदभ्युपगतविग्रहकालवत्, परभवशरीरसम्बन्धाभावेऽपि परभवव्यपदेशवत्, तथाहि'नणु' इत्यादि ॥ ननु यथा भवत्पक्षे 'विग्रहकाले' वक्रगतिसमये 'देहाभावेऽपि भाविशरीराप्राप्तावपि परभवग्रहणं परभवस्स उच्यते, तथा किमित्यत आह- तथेहापि मत्पक्षे सर्वपरिशाटकाले, अपिशब्दो भिन्नक्रमः, 'देहाभावमि' प्राग्देहत्यागेऽपि होज्जेहभवोऽ वित्तीहभवोऽपि भवेत्, को दोषो १, येनोच्यते च्युतीत्येवमाद्यत इह भवसंसार्थसाविति प्रक्रमः । अत्राचार्यो दृष्टान्तदार्शन्तिकयोर्वैधुर्यमापादयन्नाह - 'जं चियेत्यादि । यत एव देहाभावेऽपि विग्रहकालोऽसौ समयः 'तो' त्ति अत एवासौ विग्रहः परभवस्तदायुष्कदेशत्वात्, च्युतिसमये तु भवतो न देहस्तस्य त्यक्तत्वात् नापि च विग्रहो वक्राभावाद्, वक्रे च स्वयमपि परभवाभ्युपगमात्, 'यति'त्ति यदि | चेदेवं उभयतः पाशारज्जुः स्थितमेतद्, यदुत कोऽसौ भवतु संसारीत्येवमादि ॥ एवं काल उक्तोऽथान्तरमाह - 'संघात ' इत्यादि ॥ | इह संघातस्य संघातस्य चान्तरकालो - व्यवधानकालो जघन्यः सर्वस्तोकं क्षुल्लकभवग्रहणं, किंविशिष्टं ? - त्रिभिः समयैरुक्तैर्न्यनं, तथा चाह - 'दोsवी 'त्यादि । 'तेहू' इत्यादि प्रथमं खुड्डागं पुनश्च परभवमन्नं खुड्डागं चेत्राविग्रहेण गत्वा तत्प्रथमे समये संघातयतः सर्वसंघातं कुर्वतो जीवस्य सः - औदारिकसङ्घातविषयोऽपान्तरालकालो विज्ञेय इति । एवं संघातस्स जहण्णोऽपान्तरालका लो गतो । ( " तेहूणं " इत्यादि गाथा ४०७० तमा नैव व्याख्याता) । 'उक्को' इत्यादि । उक्कोसं औदारिकसंघातान्तरं तेत्तीसं समयाहियपुव्वकोडिअधियाई सो सागरोवमाई, अस्यैव भावनामाह-इह पुव्यभवाओ ऋजुगईए संघातं काऊग तत्प्रथमतया पुनश्चैकसमयन्यूनां पूर्वकोटिं धृत्वा त्रयस्त्रिंशत्सागरोपमाणि धृत्वेह तृतीये समये सर्वसंघातं कुर्वतस्त्रयाणां समयानामेकः पूर्वकोटयां प्रक्षिप्यते, ततः संपूर्णा जाता, शेष एकस्तेनाधिका सा त्रयस्त्रिंशद्भिश्व सागरैः, एष औदारिकस्य सर्वसंघातस्यान्तरकाल
सूत्र स्पर्शि कादिकरणविचार:
| ॥९२७॥