SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती शून्यतानिरास: ॥५३३॥ ॥५३३॥ | यत्कार्य, दृश्यते च सामगयात्मकं, सर्वाभावे कुतः सामग्री येन कार्य स्यात् ? इति संशयः, एतदुक्तं भवति-हेतवः प्रत्ययाश्चारभ्यम| र्थमेकैकस्य(त्वे)न वा कुर्युः संभूय वा?, न तावदेकैकस्ये(त्वे) नानुपलब्धेः, तस्मादेकैकस्य कार्यत्वेनाभावादेकैकत्र वा तत्तत्सामगयामपि नोपजायन्ते, सिकतातैलवत् , उक्तश्च-"हेतुप्रत्ययसामग्रीपृथग्भावेष्वदर्शनात् । तेन तेनाभिलप्या हि, भावाः सर्वे स्वभावतः॥१॥ लोके यावत्सञ्ज्ञा सामग्रथामेव दृश्यते यस्मात । तस्मान सन्ति भावाःभावे सति नास्ति सामग्री॥२॥७३-७४॥तथा-'परे'त्यादि । यददृश्य २ तत् खपुष्पं, दृश्यं चेत्तस्यापि वैधुर्य, कुतः ? इत्याह-'परभागादरिसणओ' तत्तावन्नास्त्येवास्य, एवं मध्यभागोऽपीति टीकाकारः, 'सव्वाराभागसुहुमताओ' त्ति केवलमाराद्भागो गृह्यते, यद्वा नासावपि यतस्तस्याप्याराद्भागस्य सावयवत्वात्पुनरन्यः खल्वाराद्भागस्तस्याप्यन्यस्तस्याप्यन्य इति सर्वारातीयस्यापि सूक्ष्मत्वाद् यावदनुपलब्धिः अतः परं मध्यभागद्वयानुपलम्भादाराद्भागस्यापि चाभावात् शून्यताऽनुमीयते, उक्तश्च-"यावदृश्यं परस्तावद्भागः स च न गृह्यते। तेन तेनाभिलाप्या हि, भावाः सर्वे स्वभावतः॥१॥" इत्यादि, उक्तानि च भृतान्यतः सन्देह इति पूर्वपक्षः ॥'मा कुरु'इत्यादि ॥ भगवानाह-हे आयुष्मन् ! व्यक्त ! मा कृथाः-संशयं, मा भृताभावं बुध्यस्त्र, म यतोऽसति भूतकदम्बके न संशयो युक्तः, अपि त्वभावनिश्चय एव, खपुष्पखरविषाणयोरिवेति साधर्म्य, 'जुतो सो'त्ति युक्तश्चासौ | संशयः सति भूतसङ्घाते, यथा स्थाणुपुरुषयोरिति, दृष्टान्तसिद्धिं च वक्ष्य इति, एवं चेत् सतस्तु युज्यते नासतस्त्वित्यत:-'को वा' | इत्यादि । कोऽत्र विशेषहेतुः ?, सर्वाभावेऽपि-सर्वशून्यतायामविशिष्टायां स्थाणुपुरुषयोरेव संशयो, न खपुष्पखरविषाणयोरिति, एत| दुक्तं भवति-सर्वाभावे भिन्नाधिकरणौ संशयाभावनिश्चयो न ज्यायांसौ भवतः, अपिच-विपर्ययः कथं न स्यात् १, वाशब्दादुभयपक्षाभावनिश्चयोऽपि न स्यात् , सर्वसंशयो वेति । अपिच आयुष्मन् !-'पञ्च' इत्यादि । प्रमाणैर्यदार्थानां प्रसिद्धिर्जाता भवेत् तदा
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy