SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती ॥५३२॥ स्तीह दीर्घत्वं, न हस्वे नापि च द्वये । तस्मादसिद्धिः शून्यत्वात् , सदित्याख्यायते क्व हि ॥१॥ हूस्वं प्रतीत्य सिद्धं दीर्घ दीर्घ | शून्यतानिप्रतीत्य हस्वमपि । न च किश्चिदस्ति सिद्धं व्यवहारवशाद्वदन्त्येवम् ।।२॥" इतश्च शून्यम्-'अत्थी'त्यादि। अस्ति घट इत्यत्र अस्ति- रास: त्वघटयोरेकत्वमनेकत्वं वा?, योकत्वं ततः सर्वैकता, आदिशब्दादनेकता, खरविषाण, एतदुक्तं भवति-यद्यस्तित्वघटयोरेकत्वमतो यो योऽस्ति स घट इतिकृत्वा सर्वथा घटत्वप्रसङ्गः स्यात् , घटस्य 'वा' सर्वात्मकत्वं स्याद् , अनिष्टं चैतद्, तथा यो घटः स एवा ॥५३२॥ |स्तीति घटमात्रावरोधादस्तित्वस्याघटाभावप्रसङ्गः, ततश्च घट एवैकः स्यात् , अस्तु चेच्छून्यताविघातित्वात् , उच्यते-सोऽपि न, प्रतिपक्षाभावादिति, सुचिन्त्यमेतदभिधीयत इति प्रथमविकल्पः, अथानेकत्वं असन् घटोऽस्तित्वबहिष्कृतत्वात् खरविषाणवत्, एवं सव्वेऽणभिलप्पा वा भावा घटवदनाधारत्वादस्तित्वस्य सर्वथा च शून्या इत्यसचात् , अपिच इह यन्नोत्पद्यते तदसदेवेति न किञ्चिदत्रमः खरविषाणवत् दत्तजलाञ्जलित्वात् , यत्तूत्पादि तदपि न घटामटति, मद्विकल्पजालाघ्रातत्वात् ।।७०-७२।। तथाहि-'जाता' इत्यादि । न जातं जायते जातत्वाद् घटवत् , अथ चेजातमपि जायत इत्यत आह-अणवत्था, नाप्यजातं जायते अविद्यमानत्वादभाववत् , अथाजातमपि जायते जायतां तर्हि खरविषाणमपि, 'उभयतो'त्ति नापि जाताजातं जायते, उभयदोषात् । अथैतदुभयमस्ति वा नवा ?, अस्ति चेजातमेव तदिति स एव दोषः, नास्ति चेदजातं नाम तत् न पुनरुभयमिति, ततश्चोक्तो दोषः। अथ चतुर्थः कश्चित्प्रकार इत्येतदपि न मन्तव्यं, जम्हा न जायमाणंपि जायते चशब्दस्यापिशब्दार्थत्वात् , पूर्वोक्तविकल्पद्वयानतिवृत्तेः, तथाहि-जायमानं | जातकोटयां चेत्युक्तो दोषः, उक्तश्च-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिमुक्तं, गम्यमानं न गम्यते ॥१॥"5 | इत्यादि । तथा-'हेतु' इत्यादि ॥ 'हेतवः-उपादानकारणानि प्रत्ययानि-निमित्तानि तेषां या सामग्री तस्याः पृथग्भावेषु न च सरकार
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy