________________
विशेषात्र० कोट्याचार्य वृत्तौ
॥९०९ ॥
जइ एवं वित्थरओ जुत्तो तदणंतगुणविहाणाओ । भवणइ तदसज्झमओ पंचविहो हेउभेयाओ ।। ३९५१ ।। मग्गोवएसणाई सोऽभिहिओ तप्पभेअओ भेओ । जह लावगाइभेओ दिट्ठो लवणाइकिरियाओ || ३९५२।। 'नवी' त्यादि || 'णवि संखेवो'त्ति, अह ण संखेवोत्ति वत्तव्यं, नेह विकारः कर्त्तव्यो विकटत्वात्, तथाविधान्याक्षरवत् न, एतदनुपादानेन प्रथमांशकपञ्चमात्र प्रसङ्गात्, तस्मात्कर्त्तव्योऽयं ?, विद्यमानत्वेनापिशब्दार्थत्वात्, तदयमत्रापक्षेपो - ननु संक्षेपण्यासद्व्यवंति शास्त्राणि भवन्ति, तद्यथा - सामायिकं चतुर्दश पूर्वाणि, इह तु नमस्काराधिकारे न संक्षेपो नापि विस्तर इति, अपिशब्दस्य व्यवहितत्वात्, तथाहि - संक्षेपो द्विविधो भवति, एतदुक्तं भवति-यदि संक्षेपः स्यात्ततः संक्षेपे द्विविधो नमस्कारो भवेत् 'सिद्धसा धूणं' ति सिद्धसाधुभ्यां व्याप्तत्वात्, निर्वाणार्हदाचार्योपाध्यायानां सिद्धेष्वन्तर्भावात्, इतरेषां साधुध्वन्तर्भावात् । तथा 'बित्थरओ | णेगविधो'त्ति अथायं विस्तरेण स्यात् ततोऽनेकविधः स्यात्, नमो ऋषभाय - महावीरवर्द्धमानस्वामिने इत्येवमादि, एवं सिद्धेभ्यः प्रथम समयसिद्धेभ्य इत्येवमादि, तस्मान्न पञ्चविधो युज्यते, उभयभ्रष्टत्वादित्याक्षेपः । अथ प्रसिद्धिस्तत्र, द्विविधस्तावन भवति एकपदव्यभिचारित्वेन वैशेषिकगुणपूजापरिहारप्रसङ्गात्, एकविधोऽपि न भवति, कर्त्तुमशक्यत्वाद्, आह च- 'अर' इत्यादि ॥ इहाईदा - चार्योपाध्याया नियमात्साधव एव, निर्वाणप्रापकयोग साधकत्वेन निर्विकल्पत्वात्, साधवस्तु तेषु - उपाध्यायाचार्यार्हत्सु भक्तव्याः, सविक| ल्पकत्वात्, सविकल्पकत्वं तु केषाञ्चित्साधूनां भिक्षुकमात्राणां साधुत्वात् केषाञ्चित्सूत्रविदामुपाध्यायत्वात् केषाञ्चिदर्थव्याख्यातॄणा|माचार्यत्वात् केषाञ्चित्समुपजात केवलत्वेनार्हश्वाद्, अतः साधुपदे व्यभिचारिणि गृह्यमाणे न वैशेषिका गुणाः पूजिता भवन्ति, अपि तु सामान्यगुणा इति, प्रयोगः - साधुमात्र नमस्कारो विशिष्टाई द। दिगुणनमस्कृतिफल प्रापणायालं न भवति, तत्सामान्याभिधाननमस्कार
संक्षेपविस्तराभावः
।।९०१ ॥